________________
244
Catalogue of Palm-Leaf Mss. in the तदेवं व्याख्याता चतुर्विंशतिद्वारात्मिका गाथाद्वयप्रमाणा संक्षिप्ततरा संग्रहणिस्तव्याख्यानाच्च श्रीहर्षपुरीयगच्छालंकारमलधारिश्रीमदभयदेवसूरिपट्टरत्नश्रीहेमचंद्रसूरिशिष्यश्रीचंद्रसूरिचरणांबुजचंचरीकेण श्रीमुनिचंद्रसूरिभ्यो लब्धप्रतिष्ठेन श्रीदेवभद्रसूरिणा विरचिता स्वगुरुप्रणीतसंग्रहण्या वृत्तिः समर्थिता ॥ छ ।
अंगान्युपागानि तथा पराणि विलोक्य शास्त्राणि गुरूपदेशात् । . विनिर्मिता वृत्तिरियं तथापि शोध्यं यदि स्याद्विबुधैर्विशोध्यम् ॥ १ ॥ निजगुरुपदभक्ते. कुर्वतो वृत्तिमेना मम समजनि पुण्यं यत्ततो भव्यलोकः । जिनपतिमतपोतात्तीर्णसंसारसिंधुजतु शिवमनंतज्ञानदृग्वीर्यसौख्यम् ॥ २ ॥ प्रत्यक्षरगणनातो ग्रंथमानं विनिश्चितम् । पंचत्रिंशच्छतान्यत्र श्लोकाना सर्वसंख्यया ॥ ३ ॥ छ । इति श्रीलघुसंग्रहणिवृत्तिः समाप्ता ॥ छ ।
यादृशं पुस्तके दृष्टं तादृशं लिखितं मया । यदि शुद्धमशुद्धं वा मम दोषो न दीयते ॥ १ ॥ अक्षरमात्रपदस्वरहीनं व्यंजनसंधिविवर्जितरेफम् । साधुभिरेव मम क्षमितव्यं कोऽत्र न मुह्यति शास्त्रसमुद्रे ॥ २ ॥ भग्नपृष्ठिकटिग्रीवा स्तब्धदृष्टिरधोमुखम् । कप्टेन लिखितं शास्त्रं यत्नेन प्रतिपालयेत् ॥ ३ ॥ छ ॥ शुभं भवतु ॥ छ । ,
No. 152:
Caityavandanabhāsya with Sanghācāravrttı
___ चैत्यवन्दनभाष्य संघाचारवृत्ति सहित Folios - 272
Size - 33 x 2 5 inches Language - Praknt & Sanskrit
Condition - Good Author - Devendrasuri Commentator - Dharmaghoşasūri Age of MS.-c. Latter half of 13th cent v.S आदिः
॥ ॐ नम. प्रवचनाय ॥ देवेन्द्रद्वंदस्तुतपादपद्म. स्वर्भूर्भुवःश्रीवरकेलिसद्म । संदेहसंदोहरज समीरः स व. शिवायाऽस्तु जिनेन्द्रवीरः ॥ १ ॥