________________
Sāntınātha Jain Bhandara Cambay
239
Folios - 69
Extent - Granthas 850 Language - Prakrit & Sanskrit
Size - 14 X 2 inches Author - Jinavallabhaganı
Date of Composition - V.S. 1172 Commentator - Haribhadrasűri of Bịhadgaccha Age of MS. - V S. 1216 आदिः
नत्वा जिनं विधास्ये विवृतिं जिनवल्लभप्रणीतस्य ।
आगमिकवस्तुविस्तरविचारसारप्रकरणस्य ॥ १ ॥
इह जिनवल्लभगणिनामा सूत्रकारो गणधरदेवादिनिवद्धातिगंभीरशास्त्रार्थावगाहनाऽसमर्थाना विशिष्टसंहननायुर्मेधादिविकलाना कलिकालोत्पन्नमानवानामनुग्रहाय सूक्ष्मार्थसार्थप्रकाशनार्थ प्रस्तुतप्रकरणं चिकीर्घमंगलादिप्रतिपादकमिदमादौ गाथाद्वितयमाह । अन्त:--
इत्यागमिकवस्तुविचारसारप्रकरणवृत्तिः समाप्ता ॥ छ ॥ * ॥
प्रायोऽन्यशास्त्रदृष्टः सर्वोऽप्यर्थो मयाऽत्र संरचितः । न पुनः स्वमनीषिकया तथापि यत् किंचिदिह वितथम् ॥ १॥ . सूत्रमतिलंध्य लिखितं तच्छोध्यं मय्यनुग्रह कृत्वा । परकीयदोषगुणयोस्त्यागोपादानविधिकुशलै ॥ २ ॥ छद्मस्थस्य हि बुद्धिः स्खलति न कस्येह कर्मवशगस्य । सद्बुद्धिविरहिताना विशेषतो मद्विधासुमताम् ॥ ३ ॥ कृत्वा यद् वृत्तिमिमा पुण्यं समुपार्जितं मया तेन । मुक्तिमचिरेण लभता अपितरजा. सर्वभव्यजन ॥ ४ ॥ मध्यस्थभावादचलप्रतिष्ठः सुवर्णरूप सुमनोनिवासः । अस्मिन् महामेरुरिवास्ति लोके श्रीमान् वृहद्गच्छ इति प्रसिद्ध. ॥५॥ तस्मिन्नभूदायतबाहुशाख- कल्पद्रुमाभ. प्रभुमानदेवः । यदीयवाचो विबुधैः सुवोधा. कर्णे कृता नूतनमंजरीव ॥ ६ ॥ तस्मादुपाध्याय इाऽजनिष्ट श्रीमान् मनस्वी जिनदेवनामा । गुकमाराधयताल्पबुद्धिस्तस्यास्ति शिष्यो हरिभद्रसूरिः॥७॥