SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ * Sāntınātha Jain Bhandara Cambay 237 Folios - 276 Extent - Gathas 475 Language - Prakrit & Sanskrit Size - 26.7 X 15 inches Author - Sivasarmasirn Age of MS - V.S 1451 Commentator - Acārya Malayagırı Condition - Good आदि: ॥ ॐ नमो वीतरागाय ॥ प्रणम्य कर्मद्रुमचक्रनेमि नमत्सुराधीशमरिष्टनेमिम् । कर्मप्रकृत्याः कियता पदाना सुखाववोधाय करोमि टीकाम् ॥ १ अयं गुणश्चर्णिकृतः समग्रो यदस्मदादिर्वदतीह किंचित् । उपाधिसम्पर्कवगाद्विशेषो लोकेऽपि दृष्टः स्फटिकोपमस्य ॥२ . इह शिष्टाः कचिदिष्टे वस्तुनि प्रवर्त्तमानाः सन्त इष्टदेवतानमस्कारपुरस्सरमेव प्रवर्तन्ते । अंत:---- कर्मप्रपंचं जगतोऽनुबन्धक्लेगावहं वीक्ष्य कृपापरीतः । । । क्षयाय तस्योपदिदेश रत्नत्रयं स जीयाज्जिनवर्द्धमानः ॥ १ निरस्तकुमतध्वान्तं सत्पदार्थप्रकाशकम् । नित्योदयं नमस्कुर्मो जैनं सिद्धान्तभास्करम् ॥ २ पूर्वान्तर्गतकर्मप्रकृतिप्राभृतसमुद्धृता येन । कर्मप्रकृतिरियमत. श्रुतकेवलिगम्यभावार्था ॥ ३ ततः क्वचैषा विषमार्थयुक्ता व चाल्पशास्त्रार्थकृतश्रमोऽहम् । तथापि सम्यग्गुरुसम्प्रदायात् किंचित् स्फुटार्था विवृता मयैपा ॥2 कर्मप्रकृतिनिधानं बहथं येन मादृशां योग्यम् । चक्रे परोपकृतये श्रीचूर्णिकृते नमस्तस्मै ॥ ५ एनामतिगम्भीरा कर्मप्रकृति विवृण्वता कुशलम् । यदवापि मलयगिरिणा सिद्धिं तेनाश्नुता लोक ॥ ६ अर्हन्तो भंगलं मे स्यु. सिद्धाश्च मम मंगलम् । मंगलं साधव सम्यग् जैनो धर्मश्च मंगलम् ।। ७ ॥ इति ॥ छ ।। संवत् १४५१ वर्षे फागुण वदि. १२ बुधे अद्येह स्तम्मतीर्थे कर्मप्रकृतिवृत्तिपुस्तिका लिखितमस्ति ॥ छ । शुभं भवतु ॥
SR No.010183
Book TitleCatalogue of Palmleaf Manuscripts in Santinatha Jain Bhandara 02
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherUniversity Publication Baroda
Publication Year1966
Total Pages310
LanguageHindi
ClassificationCatalogue
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy