________________
23I
Śântınıālha Jain Bhandara Cambay
यस्तत्र बंधको जीवः सदसत्कर्मणा स्वयम् । तत्स्वरूपप्रकाशाय विंगति स्युः प्ररूपणा ॥ ४ ॥ गुणा जीवाश्च पर्याप्तिप्राणसंज्ञाश्च मार्गणाः। उपयोगसमायुक्ता भवत्येता प्ररूपणा. ॥ ५ ॥ मार्गणागुणभेदाभ्या भवतो द्वे प्ररूपणे ।
मार्गणातर्गताः शेषा. जीवमुख्या प्ररूपणा. ॥ ६ ॥ छ । पत्र ६५
यद्रंथश्रेणिवेणीललितपदगतिप्रोल्लसद्भूरिभाव
प्रत्यक्ता र्थसार्थप्रकाटितसहजस्फारसार..... । तं वदे योगिवंद्य जिनपतिवदनाभोजनिर्यद्रहस्यं
सस्य त्रैलोक्यकीर्ति गुणमणिनिचयं येन विज्ञायि ॥ श्रीमानसौ जगति नंदतु भव्यबंधुर्नेमिः कलानिधिरुदारगुणैकधामा । यत्कीतिनिर्मलकलाव .. ...कः सांको बभूव भुवनेप्विति सुप्रसिद्धम्
॥ ८२५ ॥ छ॥ इति श्रींद्रवामिदेवविरचिते पुरवाटवंशविशेषकश्रीनेमिदेवस्य यश.प्रकाशके पंचसंग्रहदीपके बंधकस्वरूपप्र[ रूपणो नाम ] प्रथमोऽधिकारः ॥ छ ॥ * ॥ शुभं भवतु चतुर्विधसंघस्य ॥ छ॥ पत्र ७७
इत्युक्त वध्यमानस्य कर्माष्टकस्य लक्षणम् । मृलोत्तरप्रभेदेन यथोक्त पूर्वसूरिभिः ॥ १४० ॥ यः कर्मप्रकृतिस्थितिव्यतिकरव्याख्यानदीक्षागुरु
यश्चारित्रमहार्णवावधिगतो रत्नत्रयालंकृतः । यश्चाशेषतप प्रभावदिनकृत्तुद्यत्तमोवल्लरी
भ्रश्यत्कामकपायकौशिकभरत्रैलोक्यकीर्ति नुमः ॥ दानं यस्य मनोरथावधि यशो नि.शेषलोकावधि
मैत्री सत्त्वकथावधि. परिणतिस्तत्त्वावबोधावधिः । भक्ति. श्रीगुरुपादपंकजनिजाहंकारसारावधि
नेमिॉमणनंदनो विजयतामानल्पकल्पावधिः ॥