SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ 441 Sāntınātha Jain Bhandāra Cambay खल्विहोपन्यास' । उच्यते । नियुक्तिमात्रसामान्यात् । एवं सूत्रानुगमोऽप्यवसरप्राप्त एव । तत्र च सूत्रमुच्चारणीयम् । अन्तःशिष्यहितायां प्रत्याख्यानविवरणं समाप्तं ॥ छ । व्याख्यायाध्ययनमिदं यदवाप्तमिह शुभं मया पुण्यम् । शुद्ध प्रत्याख्यानं लभता भव्यो जनस्तेन ॥ समाप्ता चेयं शिष्यहितानामाऽऽवश्यकटीका । कृतिः-सितांबराचार्यजिनभटनिगदानुसारिणो विद्याधरकुलतिलकाचार्यजिनदत्तशिष्यस्य धर्मतो जाइणीमहत्तरासूनोग्ल्पमतेराचार्यहरिभद्रस्य । यदिहोत्सूत्रमज्ञानाद् व्याख्यातं तद्बहुश्रुतैः । क्षन्तव्यं कस्य सम्मोहश्छद्मस्थस्य न जायते ॥ यदर्जितं विरचयता सुवोध्या पुण्यं मयाऽऽवश्यकशास्त्रटीकाम् । भवे भवे तेन ममैवमेवं भूयाज्जिनोक्ते तु मते प्रयास ॥ अन्यच्च संत्यज्य समस्तसत्त्वा मात्सर्यदुःखं भवबीजभूतम् । मुखात्मकं मुक्तिपदावह च सर्वत्र माध्यस्थ्यमवाप्नुवन्तु ॥ छ । ग्रंथान २२००० ॥ श्री ॥ शुभ भवतु ॥ छ ॥ ११ ॥ सवत् १४९२ वर्षे आषाढ सुदि ५ गुरौ श्रीमेदपाटदेशे श्रीदेवकुलपाटकपुरवरे श्रीकुंभकर्णराज्ये श्रीखरतरगच्छे श्रीजिनचंद्रसूरिपट्टे श्रीजिनसागरसूरिराजानामुपदेशेन श्रीऊकेशवंशीयनवलक्षशाखामंडन सा० श्रीरामदेवभार्या साध्वानी मेलादे तत्पुत्र राजमंत्रिधुराधौरेयः साधु श्रीसहणपालस्तेन सं० रणमल्ल सा० रणधीर सा० रणवीर सा० भांडा सा० सांडा सा० रणभ्रम सा० चउंडा सा० कर्मसिंहप्रमुखसारपुत्रपरिवारपरिकलितेन निजपुण्यार्थ श्रीआवश्यकबृहद्वृत्तिद्वितीयखंडं भाडागारे लिखापित ॥ छ | शुभमस्तु । चिरं नद्याद्वावच्यमानं साधुवृदै ॥ छ ।।
SR No.010183
Book TitleCatalogue of Palmleaf Manuscripts in Santinatha Jain Bhandara 02
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherUniversity Publication Baroda
Publication Year1966
Total Pages310
LanguageHindi
ClassificationCatalogue
File Size10 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy