________________
Säntınátha Jain Bhandara Cambay
ग्रहरसरुद्रैर्युक्ते विक्रमसंवत्सरेऽनुराधायाम् । । कृष्णाया च नवम्या फाल्गुनमासस्य निष्पन्ना ॥ २ ॥ न्यायप्रवेशविवृते. कृत्वमा पंजिका यन्मयाप्तम् । कुशलमिह तेन लोको लभतामवबोधफलमतुलम् ॥ ३ ॥ यावल्लवणोढन्वान् यावन्नक्षत्रमंडितो मेरुः ।
खे यावच्चंद्रार्को तावदियं पंजिका जयतु ॥ छ । छ । संवत् १३१८ वर्षे माघ शुदि १ रवौ अद्येह श्रीमत् पत्तने लिखितेति ॥
(2) Nyayavatāratippanaka (२) न्यायावतारटिप्पनक Folios-120-194 Language-Sanskrit Age of MS - 1318 V S. आदिः
Size - 145X17 inches Condition - Good
नत्वा श्रीवीरमेकातध्वातविध्वसभास्करम् ।
वृत्तौ न्यायावतारस्य स्मृत्यै किमपि टिप्यते ॥ १ ॥ इहाभीष्टदेवतानमस्कारपुरस्सरमनुष्ठीयमानं समस्तमपि प्रायः प्रयोजन निर्विघ्ना सिद्धिमध्यास्त इति मन्यमानो व्याख्यातेति प्रसिद्धः सिद्धः प्रथमार्द्धन भगवतो वर्द्धमानस्वामिनो नमस्कार तथाऽभिधेयादि प्रतिपत्तिमंतरेण कचिदपि प्रेक्षावता प्रवृत्तिर्न स्यादित्युत्तरार्द्धनाभिधेयप्रयोजने च प्रतिपादयन्नाह । अवियुतेत्यादि ।
अन्तः --
___ एवं ज्ञानविशेषात्मके नयप्रमाणे सामान्यज्ञानरूपेणाऽऽत्मना व्याप्यते इति ॥छ।। ३२ लौकिकतीथिकादीनि लौकिका हलधरादयः । तीथिका वैशेपिकादयः । आदिशळाच्छेषपाखडिपरिग्रह. । वासनादित इत्यादिशब्दाद्विप्रतारकवचनादिग्रहः ॥ छ ।
कोऽयं नाथ जिनो भवेत्तव वो उहुं प्रतापी प्रिये
उंहु तर्हि विमुंच कातरमन' सौर्यावलेपक्रियाम् । मोहो येन विनिर्जित प्रभुरसौ तत्किंकरा के वय
मित्येवं रतिकामजल्पविषये वीरो जिन. पातुः वः ॥ छ । सवत् १३१८ वर्षे माघ शुदि ६ शुक्रेऽयेह श्रीमदणहिल्लपाटके। .
29