________________
Santinatha Jain Bhandara Cambay
अन्त:
सूक्तयो रामचन्द्रस्य पूर्णेन्दुः कलगीतयः । स्वातन्त्र्यमिष्टयोगश्च पंचैता हर्षवृष्टयः ॥ १ ॥
पुरुषः——इदमस्तु—
भूयासुः सत्कवीना रसरसनपरा काव्यवाचः प्रवाचः प्रत्याशं यान्तु हेलाविफलितसुजना दुर्जना नागमाशु | धर्मः पुष्णातु वृद्धिं कुरुकुल कमलारामचन्द्रः सुधार्द्रा प्राप्य स्वातंत्र्यलक्ष्मीमनुभवतु मुदं शाश्वतीं भीमसेनः ॥
समाप्तोऽयं निर्भयभीमनामा व्यायोगः । कृतिरियं प्रबन्धशतकर्त्तुर्महाकवेः
रामचन्द्रस्य ॥
यादृशं पुस्तके दृष्टं तादृशं लिखितं मया । यदि शुद्धमशुद्धं वा मम दोखो न दीयते ॥
संवत् १३०६ वर्षे भाद्रवा वदि ६ खावद्येह श्रीमहाराजकुल श्रीउदयसिंहदेव - कल्याणविजयराज्ये निर्भय भीमनामा व्यायोगो लिखित इति ॥ शुभं भवतु लेखक
पाठकयोः ॥
No. 269 :
Follos - 106
Language-Sanskrit
Author - Siddhavyākhyātā
आदि:--
अन्त:
-
Nyāyāvatāravṛttı
*
न्यायावतारवृत्ति
Size - 15 X 2 inches Condition - Good
Age of MS - c. First half of 13th
॥ नमो वाग्देवतायै ॥
अवियुतसामान्यविशेषदेगिनं वर्द्धमानमानम्य । न्यायावतारविवृतिः स्मृतिबीजविवृद्धये क्रियते ॥
तस्य चेदमादिवाक्यम् । प्रमाणेत्यादि । प्रमाणव्युत्पादनार्थमिदमारभ्यते ॥ छ ॥
423
cent. V. S.
स्याद्वादकेसरिसुभीपणनादभीतेरुत्त्रस्तलोलनयनान् प्रपलायमानान् । हेतुर्नयाश्रितकुतीर्थिमृगाननन्यत्राणान् विहाय जिनमेत्य तमाश्रयध्वम् ॥