________________
420
Catalovite of Palm-Leaf Mss. in the
आदि:
' ..... ....ता विमुक्ताश्च । . याति भुवनं समंताये केऽपि नमः सदा तेभ्यः ॥ १ ॥
ज्ञात्वा यत् किंचिदपि प्राज्ञाः कृति...... .... । .... ... ... .. णुनाऽपि रंध्रेण ॥ २ ॥ गुणदोषयोरकस्मात् पतति यथाभ्यासमेव लोकोऽयम् । निपतंति गृध्रहंसाः स्म .. .... ॥३॥
. . पकृतौ खलसत्पुरुषौ न तृप्तिमायातः । असते हि तमो भुवनं सविताऽपि सदा प्रकाशयति ।। ७ ॥ परमर्मघट्टनादिषु खलस्य यत्कौशलं न तत्कृत्ये । यत्सामर्थ्यमुपहतो विषस्य तन्नोपकाराय ॥ ८॥ आगमयत्यतियत्नात् 'परदोषान् सज्जनोऽपि नीच इव । किंतु विशेषणमनयोः पातुं सुजनः खलो वक्तुम् ॥ ९॥ शठचरितैरेव जना भृशमुपतप्ताः स्मरंति साधूनाम् । अभिलपति शशिनमधिकं दिनकरकरतापितो लोकः ॥ १० ॥ उद्युक्तः परभेदे यथा खल. सज्जनस्तथा संधौ ।
छिद्रं करोति सूची सपदि पिधत्ते तदनु तंतु ॥ ११ ॥ अन्तः पत्र २५
इति जगति विचित्रदोषवह्नि. क्षतशुभवीजगुणाकुरे प्रसूतौ । उपचिनुत यशासि नैति यावत् त्रिभुवनघस्मरमृत्युवज्रपात. ॥ ७४ ॥ केनाजितानि नयनानि मृगागनाना कश्चोत्पलेषु दलसततिमाचिनोति । को वा करोति रुचिरागरुहान् मयूरान् को वा ददाति विनयं हि
कुलोद्गतानाम् ॥ छ । लोकसंव्यवहारप्रवृत्तिर्नाम काव्यं । कृतिराचार्यरविगुप्तस्य ॥ साहसिकत्वं गुण इति यल्लघव कल्पयंति तद्युक्तम् । गुंजाफलेषु दृष्टा प्रवालकाशा पुलिंद्राणाम् ॥ चिरपरिचयाद् गुणा अपि वैमुख्यं कल्पयंति सत्त्वानाम् । अतितृपिता अपि सलिलं पिवंत एवापरज्यते ॥