________________
416
Catalogue of Palt-Leaf Mss. n. the किमिह कपालकमंडलुवल्कलसित्तरक्तपटजटापटलैः । व्रतमिदमुज्ज्वलमनसा पुंसां प्रतिपत्तिनिर्वहणम् ॥ ३ ॥ यद्गायति च वादयंति च नृणां नृत्यति चाग्रे सदा
नीचानामपि चित्रचाटुरचनास्तोत्राणि कुर्वति वा । आरोहंति च रोहणादिशिखरं कामंति चांभोनिधि
मास्तत्र निमित्तमुत्तमतमं मत्तेमकुंभस्तनी ॥ ४ ॥
No 265 (1) Suktiratnakosa-Suktasangraha
(१) सूक्तिरत्नकोश-सूक्तसङ्ग्रह Folios - I-37
Extent - Granthas 613 Language - Sanskrit
Size - 13 x I 7 inches Author-Laksmana
Condition - Good Age of MS.-C. First half of 15th cent V.S आदिः
॥ ॐ नमः सर्वज्ञाय ॥ सूक्तिरत्नसुंधासिंधुं ध्यात्वा श्रीश्रुतदेवताम् ।
सूक्तानां संग्रहं चक्रे लक्ष्मणो लक्षसूक्तिक. ॥ १ ॥ अथ जिनस्तुतिः
चित्र यत्रापरागेऽपि केवलज्ञानभास्करः ।
अजस्रमुदयं धत्ते जिनेंद्रः सोऽस्तु नः श्रिये ॥ २ ॥ जिन स पातु नाभेयो येन चामीकरच्छवि. । क्षिप्तो विशुद्धये कायस्तपस्तीबहुताशने ॥ ३ ॥ जिनः स जयता देव संसारलवणार्णवे ।
तपसा ज्वलता यस्य वाडवज्वलनायितम् ॥ ४ ॥ पत्र २/२ ---- अथ कविः
कवे श्रीवामदेवस्य कामदेवम्य धन्विनः । वाणी च पंचवाणीव न लग्ना कस्य मानसे ॥ १ ॥