________________
405
Śäntınātha Jain Bhandāra Cambay Language - Sanskrit
Condition - Good Author & Commentator - Hemacandrācārya Age of MS. - 1224 V.S आदिः
॥ ॐ नमो वीतरागाय ।। अथ प्राकृतं । अथ शब्दआनंतर्यार्थोऽधिकारार्थश्च प्रकृतिः सस्कृतम् । तत्र भवं तत आगतं वा प्राकृतं संस्कृतानंतरं प्राकृतमधिक्रियते । संस्कृतानंतरं च प्राकृतस्याऽनुशासनम् । सिद्धसाध्यमानभेदसंस्कृतयोनेरेव तस्य लक्षणम् । न देश्यस्येति ज्ञापनार्थं संस्कृतसमं तु संस्कृतलक्षणेनैव गतार्थम् । प्राकृते च प्रकृतिप्रत्ययलिगकारकसमाससंज्ञादयः संस्कृतवद्वेदितव्याः । लोकादिति च वर्तते । तेन ऋऋललऐऔडाशप विसर्जनीयप्लुतवों वर्णसमाम्नायो लोकादवगंतव्यः । ङऔ स्ववर्यसंयुक्तौ भवत एव । ऐदौतौ च केषांचित् । कैतवं कैअव सौदर्य सौअरियं । कौरवाः कौरवा । तथाऽस्वरं व्यंजनं द्विवचनं चतुर्थीबहुवचनं च न भवति ॥ छ ।। अन्तः
शेष संस्कृतवत् सिद्धम् । शेषं यदत्र प्राकृतादिभाषास्वष्टमे नोक्त तत्सप्ताध्यायीनिबद्धसंस्कृतवदेव सिद्धम् । हेट्टट्टिअसूरनिवारणाय । अत्र चतुर्थ्या आदेशो नोक्त. । स च संस्कृतवदेव सिद्धः । उक्तमपि क्वचित् संस्कृतवदेव भवति । यथा प्राकृते उरस् शब्दस्य सप्तम्येकवचनान्तस्य उरे उरम्मि इति प्रयोगौ भवत तथा कचिदुरसीत्यपि भवति । एवं सिरे सिरम्मि सिरसि सरे सरम्मि सरसि । सिद्धग्रहणं मंगलार्थम् । ततो ह्यायुष्मुच्छ्रोतृकताभ्युदयश्चेति ॥ छ । इत्याचार्यश्रीहेमचंद्रविरचिताया सिद्धहेमचंद्राभिधानस्वोपज्ञशब्दानुशासनवृत्तौ अष्टमस्याऽध्यायस्य चतुर्थ पाद समाप्तः ॥ अष्टमोध्यायः समाप्तः ॥ छ । समाप्ता चेयं सिद्धहेमचंद्रशब्दानुशासनवृत्तिः प्रकाशिकानामेति समाप्तमिति ॥छ॥
आसीद्विशापतिरमुद्रचतुस्समुद्रमुद्राकितक्षितिभरक्षमवाहुदंड. । श्रीमूलराज इति दुर्द्धरवैरिकुंभिकंठीरव शुचिचुलक्यकुलावतंस ॥ ३२ ॥ तस्याऽन्वये समजनि प्रवलप्रतापस्तिग्मद्युति. क्षितिपतिर्जयसिंहदेवः । येन स्ववंगसवितर्य्यपरं सुधाशौ श्रीसिद्धराज इति नाम निज व्यलोख ॥३३॥ सम्यग् निषेव्य चतुरश्चतुरोऽप्युपायान् जित्वोपभुज्य च भुव चतुरब्धिकाचिम् । विद्याचतुष्टयविनीतमतिर्जितात्मा काष्ठामवाप पुरुषार्थचतुष्टये य. ॥ ३४ ॥