________________
Säntinātha Jain Bhandara Cambay
'377
No. 221.
Pāndavacaritamahāhāvya--Part II Sarga 11-18
पांडवचरित महाकाव्य-द्वितीय खंड-सर्ग ११-१८
Folios - 279 Language - Sanskrit Author - Maladhāri Desaprabhasūrı
Size - 14.5x2.2 inches Condition - Good Age of MS -C. First half of
14th cent. VS.
अन्त:
कल्याणकनिकेतनं सुमनसा वासो गुरुण्वग्रणी
गोत्रेषु प्रवरः पुनाति जगतीं श्रीमालभूरन्वयः । चित्र यत्र न मित्रमंडलमिद नो वा कलावानपि
स्थानाप्राप्तिवगेन संततमहो पार्थे परिभ्राम्यति ॥ १ ॥ तत्र श्रीजंबूको नाम बभूव सचिवाग्रणीः। यद्बुद्धिगूर्जराधीशराज्यलक्ष्मीरसायनम् ॥ २ ॥ अमृत्तढन्वयामोधिसुधादीधितिसन्निभः । बीर कुवलयानंढकंदकंदलनोद्यमी ॥ ३ ॥ शातस्वातस्ततो जातः श्रीशांतः सचिवाग्रणीः । अविकाचरणाभोजभृगी तस्याऽऽम्बडा प्रिया ॥ ४ ॥ अजायत ततः श्रीमान् विमलो नाम नंदनः । येनाखिलं कुलं चक्रे विमलं विमलात्मना ॥ ५ ॥ आसील्लक्ष्मीरिति ख्याता प्रथमा तस्य गेहिनी । अपरा रुक्मिणी नाम्ना धर्मकर्मसु कर्मठा ॥ ६ ॥ लक्ष्मीकुनिसरोहंसः स्वकुलोत्तंसता गतः । अजायत सुतस्तस्य यशोदेवाभिधः सुधीः ॥ ७ ॥ बभूव सत्पथे पाथ पेथाक इति विश्रुतः । तदन्यो रुक्मिणीकुनिसुक्तिमुक्तामणि सुतः ॥ ८ ॥ यशोदेवोऽस्य सत्कर्मारामपीयूषसारणि । प्रत्यु पठातिके लीना केलीनाम्नाऽजनि प्रिया ॥ ९ ॥