SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ 361 Sāntinātha' Jain Bhandāra Cambay श्रीमजिनेशप्रभुहस्तपद्माघिवासतो लाखणनामधेयः । तीर्थेशयात्रादिककर्मनिर्मलः कुलप्रदीप. सुजनोपकारी ॥ १७ ॥ अथान्यदा लाखण एष हृष्टः सुदृष्टशास्त्रार्थविनीतचेष्टः । भवस्वरूपं झणदृष्टनष्टं विभावयामास निशावसाने ॥ १८ ॥ प्रात. प्रयात. सुगुरोः समीपे तदेव तत्रैव तथा निशम्य । ततः प्रबोधार्कसुदृष्टवस्तुना समाधिना ध्यायति सर्वमप्यदः ॥ १९ ॥ तथाहि देहं दु.खैकगेहं जलनिधिलहरीचंचलं जीवितव्यं “ संपत्तिः प्राणभाजा प्रसृमरपवनोद्भूतकेतूपमेया । सौदर्य सुभ्रनेत्रांचललुलितसमं बंधुसंगोऽप्यनित्यो जैन धर्म विनाऽन्यन्नहि मनुजभवे शाश्वतं किंचिदस्ति ॥ २० ॥ दानशीलतपोभावभेदैर्धर्मश्चतुर्विधः । मुख्यतो यतयो दानमेवैकं संप्रचक्षते ।। २१॥ ; यद्यपि त्रिविधं शास्त्रे तद् दानं ननु विश्रुतम् । तथापि ज्ञानदानान्नो दानमन्यत् प्रशस्यते ॥ २२ ॥ ज्ञानं श्रुताश्रितं प्रोक्तं श्रुतं शास्त्रमिति स्मृतम् । ', तच्च द्विधा समाख्यातं कल्पिताचरितक्रमात् ॥ २३ ॥ तद्वयोद्योतितं किंचिच्चरितं सुनिरूपये । इति चिंतयतस्तस्य स्मृतिगोचरता गतम् ॥ २४ ॥ चरित्रं समरादित्यभूभुजः प्रशमास्पदम् । संसारिजीववैराग्यरसनिस्यदभाजनम् ॥ २५ ॥ किंच द्वेषव्याघ्रहुताशनं शमधुनीपूरार्णवं दुर्णय ध्वातध्वंसनभास्करं कलिमलप्रक्षालनकामृतम् । एतत्सच्चरितं तु चारु समरादित्येशितुः शास्त्रतो बद्धं श्रीहरिभद्र रिगुरुणा सवेगसगाय नः ॥ २६ ॥ 21
SR No.010183
Book TitleCatalogue of Palmleaf Manuscripts in Santinatha Jain Bhandara 02
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherUniversity Publication Baroda
Publication Year1966
Total Pages310
LanguageHindi
ClassificationCatalogue
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy