________________
354
Catalogue of Palit-Leef Mss. in the अथापरः श्रीमुनिरत्नमरिनामा निकामाद्भुतमूर्तिकीर्तिः। . - कैः पौनरुक्त्येन न यद्गुणौघ श्लाघाचलन्मौलिभिरभ्यवर्णि ॥ १२ ॥ सिद्धांतसाहित्यपदप्रमाणस्कंधत्रयज्योतिपशास्त्ररूपान् । सप्तापि बार्बीन् भजतो यदीये स्पर्धानुबंधादिव बुद्धिकीर्ती ॥ १३ ॥ ताकिः श्रीतिलकचंद्रसूरिरजायत । . सूरिस्तिलकयामास नभोयुबुद्धिनिर्जित. ॥ १४ ॥ पट्टे स्वे जिनसिंहसूरिसुगुरु सूरप्रभस्य प्रभो.
पट्टे किं च जिनेश्वराभिधगुरुं संस्थाप्य मध्ये तयोः । आसीनो मुनिरत्नसूरिंगणभृद्रेजे जगन्नंदिनोमेरुः सूर्यशशांकयोरिव लसज्जात्याश्वयोर्वा रथः ॥ १५ ॥
इतश्च
वाराही नगरी तनूमिव शुचिर्मुक्तोपमो भूषयन्
___ श्रीश्रीमालकुले यशोधवल इत्यासीत् स कोगाधिप । निश्छिद्रोऽपि गुणान्वितस्ततलसत्तेजा. सुवृत्ताग्रणी
__यश्चौलुक्यपुरश्रियो विहितवान् सीमंतशृंगारणम ॥ १६ ॥ तत्सूनुर्द्धिषणानिरस्तधिषणारंभोऽस्ति ढंभोज्झित
___विद्यो विदुषां स्थितो धुरि जगद्देवो नृदेवार्चितः । बालत्वे स्वकवित्वरंजितहृदः श्रीहेमसरेर्मुखा
द्वैतीयीकमवाप वालकविरित्युद्दामसन्नाम यः ॥ १७ ॥ प्राक् चक्रे किल धर्मघोषगणभृद्यान् षोडश श्रावकान्
गच्छे स्वे व्रतिना जिनागमविधि व्यालंपतां शासकान् । धर्मस्थायविशारदो नयपटुर्विद्याब्धिपारंगम
स्तेष्वप्येप ययावशेषविबुधानुल्लंघ्य वाग्मुख्यताम् ॥ १८ ॥ यत्प्रश्नाशंकया शके सरस्वत्यपि पुस्तकम् । हस्ते यत् सर्वदा धत्ते तत् सूरीणा कथैव का ॥ १९ ॥ आचार्या. कति नाम नामरगुरुस्पर्धिष्णवः प्रज्ञया ।
विद्यते प्रभुधर्मघोषगणभृद्गच्छे गुणैरुल्वणै. ।