________________
- Sāntinātha Jamu Bhandara Cambay
337
N.
Munisuvratastâmicaritramabākavya-Padya
मुनिसुव्रतस्वामिचरित्रमहाकान्य-पद्य Folos - 193
Extent - Granthas 6806 Language - Sanskrit
Size - 33 5 X 2 inches Author - Muniratnasūri
Condition - Good Age of MS.-c First half of 14th cent V.S General Remarks - Folios 140, 142, 172 and 177 missing
आदिः
॥ ॐ नमः सर्वज्ञाय ॥
पायात् पदनखश्रेणिमणिस्वच्छा जिनस्य वः । धर्मस्य दशरूपस्य या क्रीडादर्पणायते ॥ १ ॥ पादाग्रजाग्रनिर्व्याजराजमौलिमणिद्युति. । देवदेव. स वः पातु नवः श्रीवृषभध्वजः ॥ २ ॥ श्रीशांतेः शातिक पादा. स्फुरत्सौवस्तिकश्रियः । तन्वता जगता खन्नखज्योतिर्जलप्लवैः ॥ ३ ॥ हरिवंशसरोनीलोत्पलश्री. श्रीनिकेतनम् । देवेंद्रनेत्ररोलंवचुंवितः पातु सुव्रतः ॥ ४ ॥ उपास्ते य क्षमाभारोद्धारवैमुख्यदुर्यशः । स्वस्थापनेतुं कूर्मेशस्तीर्थेशः सोऽस्तु वः श्रिये ॥ ५ ॥ यत्पादौ भक्तलोकाना द्वेधा दौर्गत्यवारणौ । निधी नव्याविवाशेषसुरासुरनिषेवितौ ॥ ६ ॥ आश्रितौ शंखमकरपझैस्तैर्निधिनिर्जितैः । लक्ष्मणच्छद्मना प्रेक्ष्य कच्छपोऽप्याश्रयद् ध्रुवम् ।। ७ ।। कल्याणकदलीकंदानुल्लासयतु वश्चिरम् । स्फुरत्तेजोघनच्छाय. स श्रीमान् मुनिसुव्रतः ॥ ८॥ त्रिभिर्विशेषकम् । तरलोऽपि तत. किंचिच्चरित्रं निजशक्तितः । मुनिसुव्रतनाथस्य वक्ष्ये तद्भक्तिलुब्धधीः ॥ ९ ॥
18