________________
320
Calalogue of Palm-Leaf Mss. in the
चतुर्विंशतितीर्थेशचरित्रश्रवणोत्सवः । मत्पुण्यवनपर्जन्यः पूर्यतां त्वत्प्रसादतः ।। ६१ ।। निशम्य तद्वचः सम्यगमरो मुनिरब्रवीत् । हृद्वतिगमपीयूपपयोधिलहरी गिरम् ॥ ६२ ।। तीर्थकरचरित्राणां तीर्थकरजुपामपि । तीर्थकरागमार्थानां प्रथा धर्मकथा मता ॥ ६३ ।। संवेगं विंदते नांगी निर्वेदं नैव विंदति । संवेदयति नानंदशर्म धर्मकथां विना ।। ६४ ॥ तत्त्वं सात्त्विकताकंदमहानंदमहोदयाः । कथ्यमाना मया तथ्याः पथ्या धर्मकथाः शृणु ॥ ६५ ॥ चतुर्विशतिरहन्तो व्यधिका दश चक्रिणः । प्रत्येकं नव बलिनो विष्णवः प्रतिविष्णवः ।। ६६ ॥ त्रिषष्टिरवसर्पिण्यां शलाकापुरुषा इति ।
इहासन् भरतक्षेत्रे भूतसंभाविसिद्धयः ।। ६७ ।। अन्त:
इति जिनदत्तसूरिशिष्यपंडितश्रीमदमरचंद्रविरचिते श्रीपद्मानंदापरनाम्नि श्रीजिनेन्द्रचरिताभिधाने महाकाव्ये वीराके श्रीआदिनाथचरिते मरीचिस्वरूपभगवनिर्वाणवर्णनो नामाष्टदशमः सर्गः ॥
सोऽव्याद्वो वृपभप्रभुर्भवततौ सेवां वभारेव या
तां संत्यज्य चिराद्विरागललितो लोकस्थिति यद्यपि । एकः शाश्वतमुक्तिशर्म किमपि प्रापत् पदं यः परं
सातर्भावभृता तथाऽपि किल यं ज्ञाने निलोनान्वगात् ॥ १ ॥ देवा यात्यमृताशनैरमरतां श्रीपद्य वेद्मि ध्रुवं
श्रीदेवी समदा कदापि न ततस्त्वा मोक्तुमुत्कंठते । येनासौ सुकृतामृतैः प्रतिपदं संतर्पमाणान्वया
संप्राप्नोत्यजरामरत्वमतुलं तत्त्वा कुतो मोक्ष्यति ॥ २ ॥ छ । अंथागं श्लोक ३३६ ॥