SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ 314 Catalogue of Palm-Leaf Mss, in the सार्द्धद्वादशसंख्येयाः ज्ञातयो नगराभिधाः । बभूवुस्तस्माद्वंशा वटशाखेव विश्रुताः ॥ २ ॥ डिंड्वानकात्समुद्भूता वणिजत्वेऽपि डिंडहाः । विख्याताः संति सर्वत्र गच्छोऽस्ति तत्पुराभिधः ॥ ३ ॥ आसीत्तस्मिन् वणिग्वंशे नेमाकः पुरुषाग्रणीः । देवश्रीवल्लभा तस्य पुत्रैकं द्वेच पुत्रिके ॥ ४ ॥ तदंगभूरभूचारुः श्रेष्ठी पारसनामकः । पद्मिनी दयिता तस्य सती साध्वी शुभाशया ॥ ५ ॥ शाकंभरीमंडलगगनभानुः श्रीधर्मघोषः समजनि प्रबुद्धः । मिथ्यात्वविरतं सद्धर्मनिरतं परमार्हतं पारसकं चकार ॥ ६॥ सम्यक्त्वरत्नविभूषितागे सर्वज्ञपूजनदानचगे । नेमाकविग्रहजे प्रसिद्धे जाते सदा पूनिणि सड्डिकारव्ये ॥ ७ ॥ जज्ञाते नंदनौ द्वौ च ताभ्यां सद्धर्मतत्परौ । वोघाकः प्रथभो नाम वाग्भटश्च तथाऽपरः ।। बोघाकस्य भवेद्भार्या मल्हणदेवीति विश्रुता । प्रत्यक्षा कथ्यते आई जिनधर्मेकनिश्चला ॥ ८ ॥ जाता वाग्भटस्येव मदनश्रीः प्रथमा प्रिया । द्वितीयदयिता जज्ञे देवी देसलपूर्वकाः ॥ ८ ॥ लाडी साल्ही सुते स्याता पारसस्य महात्मनः । बालस्याद्विधवा भूयात् लाडी सधर्मवत्सला ॥ ९ ॥ रत्नत्रयवत् संजातं वयं तस्याः सुतत्रयम् । काक्टो नृपतिस्तेजा यथासंख्यममी सुताः ॥ १० ॥ देसलाया सुता जाताश्चतस्रो गुलमालयः । प्राच्यपाची प्रतीची च उदीची च यथाक्रमम् ॥ ११ ॥ लक्ष्मीवल्लक्ष्मी. प्रथमा राजी राजीवलोचना । तृतीया नयना चैव तुर्या कर्पूरिका स्मृता ॥ १२ ॥
SR No.010183
Book TitleCatalogue of Palmleaf Manuscripts in Santinatha Jain Bhandara 02
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherUniversity Publication Baroda
Publication Year1966
Total Pages310
LanguageHindi
ClassificationCatalogue
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy