SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ Sāntinātha Jair Bhandara Cambay 307 यो वालोऽपि धुरं बभार महतीं धौरेयवल्लीलया । धीरः पंचमहाव्रतं प्रणयिनी वैराग्यवीतस्पृहः ॥ १७ ॥ नवोऽस्ति सुकृती पट्टे सूरिमंडलमंडनः । शालिसरिरय नामा गुणरत्नैकरोहणः ॥ १८ ॥ इह धर्कटवंशेऽभूद्वरदेवोऽभिधानतः । । निश्चितं वरदेवोऽयं पुरुषः कुलभूषणम् ॥ १९ ॥ भार्या पूर्णमतिस्तस्य पूर्णापूर्णमतिर्मता । तत्कुक्षिसंभवाः पच तनुजाः पाडवा इव ॥ २० ॥ आद्यो लक्ष्मीधराख्योऽभूद्वितीयो नागुलाभिधः । तृतीयः पासडः ख्यातश्चतुर्थः कालियाभिधः ।। ३ ॥ पंचमो जगदेवाख्यः सुकृती कृतिवत्सलः । भार्या लक्ष्मीधरस्याभूत् कमलश्रीरिति नाम्ना ॥ ४ ॥ तत्कुक्षिमानसे राजहंसो राजाक इत्यभूत् । राजाकस्य मता भार्याऽभयश्रीरिति संज्ञया ॥ ५ ॥ तस्याः सुतद्वयं जज्ञे प्रथमोऽभयपालकः । द्वितीयो हरिचंद्राख्यश्चन्द्रवच्चारुकान्तिभाक् ॥ ६ ॥ पासडस्य हि भार्या तु जयश्रीरिति नामतः । तया सुतद्वयं जातं पुत्रिकाद्वितयं तथा ॥ ७ ॥ यथार्थेन स्वनामाऽभूत् कुलधरो धुरि कृती । द्वितीयो देवसिंहाह्रो देवधीगुरुभक्तिभाक् ।। ८ ॥ पुत्रिका मोहिणिः ख्याता सदा धर्मपरायणा । द्वितीया सोहिणिर्जाता गुरुस्वजनवत्सला ॥ ९ ॥ कुलधरस्यापि भार्याऽऽसीत् देवश्रीरिति नामतः । रूपलावण्यसंयुक्तो नरसिंहः सुतोऽभवत् ॥ १० ॥ नरसिंहस्य भार्याऽस्ति नाम्ना लाडीति विश्रुता । कलत्र देवसिंहस्य देवमतिरिति श्रुता ॥ ११ ॥
SR No.010183
Book TitleCatalogue of Palmleaf Manuscripts in Santinatha Jain Bhandara 02
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherUniversity Publication Baroda
Publication Year1966
Total Pages310
LanguageHindi
ClassificationCatalogue
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy