________________
305
Śântınātha Jain Bhandāra Cambay
चौलुक्यः परमाहतो विनयवान् श्रीमूलराजान्वयी
__तं नत्वेति कुमारपालपृथिवीपालोऽब्रवीदेकदा ॥ १६ ॥ पापर्द्धिद्यूतमद्यप्रभृति किमपि यन्नारकायुर्निमित्तं
तत् सर्व निर्निमित्तोपकृतिकृतधिया प्राप्य युष्माकमाज्ञाम् । स्वामिन्नुआं निषिद्धं धनमसुतमृतस्याथ मुक्तं तथाऽर्ह
चैत्यैरुत्तसिता भूरभवमिति समः सम्प्रतेः सम्प्रतीह ॥ १७ ॥ अस्मत्पूर्वजसिद्धराजनृपतेर्भक्तिस्पृशोर्याच्या
सांग व्याकरणं सवृत्ति सुगम चक्रुर्भवन्तः पुरा । मद्धेतोरथ योगशास्त्रममलं लोकाय च द्याश्रय
च्छन्दोऽलंकृति-नामसंग्रहमुखान्यन्यानि शास्त्राण्यपि ॥ १८ ॥ लोकोपकारकरणे स्वयमेव यूयं सज्जाः स्थ यद्यपि तथाप्यहमर्थयेऽदः । मादृग्जनस्य परिवोधकृते शलाकापुंसां प्रकाशयत वृत्तमपि त्रिषष्टेः ॥ १९ ॥ तस्योपरोधादिति हेमचन्द्राचार्यः शलाकापुरुपेतिवृत्तम् । धर्मोपदेशैकफलप्रधान न्यवीविशच्चारुगिरा प्रपंचे ॥ २० ॥ जम्बूद्वीपारविन्दे कनकगिरिरसावश्नुते कर्णिकात्वं
यावद् यावच्च धत्ते जलनिधिरवनेरन्तरीपत्वमुच्चैः । यावद् व्योमाध्वपान्थौ तरणिशशधरौ भ्राम्यतस्तावदेतत्
काव्यं नाम्ना शलाकापुरुषचरितमित्यस्तु जैत्रं धरित्र्याम् ॥२१॥ छ॥ ॥ मंगलमस्तु ।। शुभं भवतु लेखकपाठकयोः ॥छ । संवत् १३२४ वर्षे मार्गवदि १३ रवावयेह श्रीमदुजयन्यां श्रीमहावीरचरितपुस्तकं सा० देवसिंहेन मातुः श्रेयोर्थ लिखापितम् ॥ छ ।
॥ ॐ ॥ मदनघनसमीरः शर्मणे सोऽस्तु वीरः
तदनु विदितधामा गौतमस्वामिनामा । अपहरतु परेषामापदं वैरिशाखा
सफलितजनिताशा विश्वविश्वप्रकाशा ।। १ ।। तस्या शम्बरभास्वरः कुलगृहं लक्ष्क्ष्या समालिंगित
चंचच्चन्द्रसमोदयेन मुदित ..मुक्तालयः।
14