________________
303
Śântınātha Jain Bhandara Cambay
इत्याचार्य श्रीहेमचन्द्रविरचिते त्रिपटिशलाकापुरुषचरित महाकाव्ये दशमपर्वणि श्रीमहावीरनिर्वाणगमनवर्णनो नाम त्रयोदग. सर्गः ॥ समाप्तं चेदं ढगमं पर्व ॥ छ । छ । परिपूर्णमिदं त्रिषष्टिशलाकापुरुपचरितं महाकाव्यमिति ॥ शुभं भवतु लेखकपाठकयो. ॥ छ।
शिप्यो जम्बूमहामुनेः प्रभव इत्यासीदमुष्यापि च
श्रीशव्यम्भव इत्यमुप्य च यशोभद्राभिधानो मुनिः । सम्भूतो मुनिभद्रवाहुरिति च द्वौ तम्य शिष्योत्तमो
___ सम्भूतस्य च पादपद्ममधुलिट् श्रीस्थूलभद्रायः ॥ १ ॥ वंशक्रमागतचतुर्दगरत्नकोग .. . . तस्य दशपूर्वधरो महर्षिः । नाम्ना महागिरिरिति स्थिरतागिरीन्द्रो ज्येष्ठोऽन्तिपत् समजनिष्ट
विशिष्टलब्धिः ॥ २ ॥ शिप्योऽन्यो दगपूर्वभृन्मुनिवृषो नाम्ना सुहस्तीत्यभूद्
यत्पाढावुजसेवनात् समदितप्राज्यप्रबोधर्द्धिक. । चक्रे सम्प्रतिपार्थिवः प्रतिपुरग्रामाकरं भारते
ऽम्मिन्नर्ते जिनचैत्यमण्डितमिलापृष्ठ समन्तादपि ॥ ३ ॥ अजनि सुस्थित-सुप्रतिबुद्ध इत्यभिधयाऽऽयसुहस्तिमहामुने । शमधनो दशपूर्वधरोऽन्तिपद् भवमहातरुभजनकुजर. ॥ ४ ॥ महर्पिससेवितपादसन्निधे. प्रचारभागालवणोढसागरम् । महान् गणः कोटिक इत्यभूत् ततो गगाप्रवाहो हिमवद्रेिरिव ॥ ५ ॥ तस्मिन् गणे कतिपयेष्वपि जातवत्सु साधूत्तमेषु चरमो दशपूर्वधारी । उद्दामतुम्बवनपत्तनवज्रखानिवज्रं महामुनिरजायत वज्रसूरिः ॥ ६ ॥ दुर्भिक्षे समुपस्थिते प्रलयवद् भीमत्वभाज्यन्यदा
भीतं न्यस्य महर्पिसंघमभितो विद्यावदात' पटे । चोऽभ्युद्धत्य करावुजेन नभसा पुर्यामनैपीन्महा
पुर्या मक्षु सुभिक्षधामनि तपोधाम्नामसीम्ना निधिः ॥ ७ ॥ तस्माद् वज्राभिधा शाखाऽभूत् कोटिकगणद्रुमे । उच्चनागरिकामुख्यशाखात्रितयसोढरा ॥ ८ ॥