________________
Šāntinātha Jain Bhandāra Cambav
3ot आसीत्ततो विजयसिंहमुनिः प्रसिद्धः सत्याभिधः शुभविधिनिधिरागमानाम् । धत्ते श्रियं समदवादिजनद्विपानां यो मानखडनविधौ नखरायुधस्य ॥ ४ ॥ श्रीपद्मदेवनामा सूरिः श्रेष्ठस्ततः समजनिष्ट । जनताहृदयसरस्या हंसा इव यद्गुणा रेजुः ॥ ५ ॥ वेधा व्यधान्नवसुधां वसुधांतरस्था श्रीपद्मदेवमुनिपुंगववामिपेण । या पीयते स्म विबुधैर्न पुनस्ततान यत्तानवं नवरसप्रसरातिरिक्ता ॥ ६ ॥ तत्पादावुजचंचरीकपरमानंदाभिधानप्रभो
वाग्देवी मुखवारिजे विजयते हस्तावुजे श्रीरपि । नैवं चेत्तदभूदयं मदभरच्छेदाय कि वा दिना
कि मौलौ करदानतोऽजनि जनः श्रेयः श्रियो भाजनम् ॥ ७ ॥ तत्पट्टोदयशैलमौलितरणिभूषामणि तले
स श्रीमान् जयदेवसरिरभवद्भव्यावुजोल्लासकृत् । उन्मीलत्कलिकालकल्मषमपीलोपस्तपःपाथसा ___चक्रे येन जिनेश्वरागममहाश्रोतस्विनीजन्मना ॥ ८ ॥ तत्पादपद्मद्वितये पडहिर्जयप्रभः सवि॒तवद्धबुद्धिः।।
स्वश्रेयसे शांतिजिनादिपर्व विलेखयामास गुणैर्वरेण्यः ॥ ९ ॥ - यावदिग्दतिनोऽमी हृदि दधति मुदं भूतधात्री धुराया
यावत्तिग्माशुरंशुप्रचयपरिचयादुचिनोत्यंधकारम् । यावद्धर्म प्रणीत प्रसरति सततं सर्वतः श्रीजिनेंद्रे
सम्यक् पापठ्यमान शमिभिरभिनव पुस्तकस्तावदस्तु ॥ १० ॥ शुभमस्तु ॥ छ । समाप्तमिदं श्रीशांत्यादिनमिपर्यंततीर्थकराणां चरित्रम् ॥ छ ।।
ना
॥
८
॥
No. I 38: Trisastıśalākāpuruşacaritamahākāvya-Parvan VII
Aristanemicarıtra त्रिपप्टिशलाकापुरुपचरितमहाकाव्य --पर्व ८: अरिष्टनेमिचरित्र Folios - 128
Size - 34 X 2.2 inches Language - Sanskrit
Condition - Good Author - Hemacandrācārya
Age of MS. - c. First half of 14th
cent, VS