________________
298
Catalogate of Paln-Leaf Mss. in the
.
एतस्मिन् गुणरत्नरोहणगिरिदेवप्रसादाभिधः
स्तुत्याऽनेकगुणोघरत्ननिधिभिः कोशाधिपो नूतन. । जातो यस्य विवेककल्पविटपी चित्तालवालान्तरे
विश्वप्राणिगणोपकारकरणप्रावीण्यमुद्राफलः ॥ २ ॥ नाम्ना महघलदेवीति प्रिया तस्य प्रियंवदा । शुद्धशीला तयोः पुत्री जज्ञे पुत्रद्वयं ततः ॥ ३ ॥ सुता मल्हणदेव्यारव्या ठक्कुरचाहाप्रिया । विश्वान्तः संततिर्यस्या' श्रेयोभिः कीर्तिभाजनम् ॥ ४ ॥ देवं स्वीयगुरुं मनोज्ञवचनैर्य स्तौति न स्वं पुनः
सर्वस्योपकृति तनोति नितरा न स्वस्य कस्मादपि । संसर्ग गुणिना सदैव कुरुते न क्वापि पापीयसा
स श्लाघ्यो बहुदेव इत्यभिधया पूर्वस्तयोरंगजः ॥ ५ ॥ तत्पत्नी जिनराजचारुचरणाभोजद्वयीभृगिका
श्रीमत्पंचनमस्कृतिस्मृतिपरप्राविण्यपुण्योन्नतिः । शीलाचारविचारसारमुक्ताहारावलीभूपिता
रख्याता श्रीजगदेवमत्रिदुहिता शृंगारदेवी भुवि ॥ ६ ॥ युक्तायुक्तविचारनिस्तुषमतिलप्रसादः पर
स्तस्याऽभूत् सुभगा कलत्रमभवत्तज्जन्म सूनुद्वयम् । आद्योऽस्तीह विशुद्धबुद्धिकलितः सूनुर्नृसिंहाभिध.
सौभ्रात्रप्रथितोरुवृत्तकलितोऽन्यो रत्नसिंहाभिधः ॥ ७ ॥ सुतत्रयं सुता चैका बहुदेवस्यापि संततिः । बालभावेऽपि यच्चित्रमबालचरितोत्तमम् ॥ ८ ॥ भक्तिव्यक्तिरभिज्ञविस्मयकरी पित्रोस्तथा बंधुषु
शान्ति. शैशवसंगमेऽपि सुधिया केपा न दत्ते मुदम् । औचित्य च पुराणपूरुषजनासाध्यं च यस्योच्चकैः
सत्पुत्रः प्रथमो विवेकवसतिः श्लाघास्पद छड्डकः ॥ ९ ॥
.