________________
५८
व्याससम्मत-ब्रह्मसूत्रभाष्यनिर्णयः, मन्यामहे 1 यादृशः पन्था अस्माभिरत्र समाश्रितः सस्कारवशेन किल, स यदि अन्येषां स्वस्वमत-प्रकटनाय नूनं अनुसृतो भवेत, तदा सत्यानुसन्धित्सूनाम् अनेन महान् उपकारो भविष्यति, अस्माकमपि श्रमः सफलः भविष्यति।।
अध्यायपादसङ्गतिद्वयमपि कौशलान्तरम् एवं च ग्रन्थोदेश्य-निर्णयद्वारा या श्रुतिसङ्गतिः समुपलव्धा, तथैव ग्रन्थप्रतिपाचावधारणेन या च शास्त्रसङ्गति. समासादिता, ताभ्यामेव सूत्रादि-व्याख्याने नियन्त्रिते सति व्यास-मतानुसारि-सूत्रार्थ-निर्णय-सम्भावनायाम् एतत् सङ्गति-द्वयम्, एतद्ग्रन्थ-रचना-कौशल भक सूत्र-भगवद्-बादरायणस्य इति ज्ञायते ।
परन्तु एतत्-कौशल-द्वयेनापि एतद्-ग्रन्थान्तर्गतसूत्र-व्याख्यानं न सम्पूर्णतया नियन्तयितुं शक्यते, अध्याय-मादाना प्रतिपाध-भेदात् । श्रुति-शास्त्र-सतिद्वयम् अनुसृत्यापि अध्याय-पादप्रतिपाच-विषय-भेदेन तत्तत्-सति-वलात् सूलार्थ. खलु अन्यथा नेतुं शक्यते । यथा साधनाध्याये फलाध्याय वा यदुक्त, तेन यत्र जीव-जगद्-ब्रह्म-विषयक-तत्वनिर्णयः कथञ्चिदपि समान्यते, तत्र स निर्णयो न मुख्या, स तु तत्त्व-निर्णायक-प्रथम-द्वितीयाध्यायाधीनः एव भवितुं युक्तः, अतो गौण: एव स निर्णयः, तेन न प्रथम-द्वितीयाध्याययोः सिद्धान्तौ न अन्यथा करणीयौ । तथैव प्रथम-द्वितीयाध्याययोः साधन-फलविषयक न किमपि अनुसन्धेयम्। अत. सूत्रार्थाना सम्यम् अवधारणार्थम् अध्याय-प्रतिपाच-रूपा अध्याय सङ्गतिः, तथा पाद-प्रतिपाद्यरूपा पावसङ्गतिः निर्णया।
सूत्रप्रकृतिप्रभृतिद्वारा तन्निरूपणस्ताव परन्तु एतदर्यं न किमपि इजित कृतं सूत्रकारेण । अध्याय-पादादयः कुन आरब्धाः, कुत्र वा समाप्ताः---इति गुरूपदेश प्रवाद वा विना न ज्ञातुं शक्यते ; अध्याय-पादादीना नामनिर्देशादिक प्रतिपाच-वर्णनं वा दूरे आता। अत एव एतदर्थ सूत्राणा प्रकृत्यनुशीलन, तथा पूर्ववत्-तात्पर्य-निर्णायक-लिङ्ग-साहायमपि आश्रयणीयम् । किन्तु तदपि न स्वल्पश्रमसाध्यम्, अतस्तेषा षण्या लिङ्गाना मध्ये प्रथमं यद् उपक्रमोपसंहाराख्यं मुख्यं लिङ्ग, तथा सूत्राणा यत् पदविन्यासादिकं तदेवात्र आलोचनीयम् । एतेन एव अत्र अध्यायारम्भः तथा अध्याय-समाप्तिश्च निर्णतुं शक्यते इति वयम् आशास्महे ।
अध्यायापानिर्णय अनेन पथा अनुसन्दधभि. अस्माभिः प्रथमं दृश्यते अत्र ग्रन्थमध्ये चत्वारि सूत्राणि द्विरुक्त-पदानीति, यथा
“एतेन सर्वे, व्याख्याता व्याख्याता ।" -२१४।२८ 1 . “वशेष्यात् तु तवास्तवाद ॥” २।४।२२ . . .
M