SearchBrowseAboutContactDonate
Page Preview
Page 524
Loading...
Download File
Download File
Page Text
________________ २३४ व्याससग्गत-ब्रह्मसूत्रभाष्यनिर्णय: ( ३यः पादः ) गृहीतम् । श्रीपतिमाप्ये तु एतदारभ्य सूत्रचतुष्टयं गृहीतम् । वल्लभभाष्ये अधिकरणं न आरव्यम् । तत्र एतत् सूत्रं तदीयसूत्रचतुष्टयात्मकप्रथमाधिकरणस्य चतुर्थ सूत्रम् । माध्वभाज्ये अनेन चतुर्थाधिकरणं रचितम् । " अत्र प्रथमान्तपदामावात् नास्य अधिकरणारम्भकत्व युक्तम् । तथापि पूर्वसूत्रात् “मुक्त” “आत्मा” इति एकस्य प्रथमान्तपदस्य अध्याहारात्, अर्थतः विषयमेदात्, विधेयान्तरत्वात् कहनीयप्रथमान्तपदाच्च तद् युक्तमेव । ५म सामान्यनियमात् ४र्थ विशेषनियमाच्च, अन्वयप्रकार. वृत्तौ द्रष्टव्य । अत्र वल्लभभाष्ये अधिकरणस्य अनारम्भात् दोषः एव वाच्यः । परसूत्रे अधिकसम्मत्या अधिकरणारम्भात् अत्रैव तस्य समाप्तिः । तृतीयं ब्राह्माधिकरणम् । अत्र "ब्राह्मेण जैमिनिरुपन्यासादिभ्य." ४/४/५ (५३८ ) इति सूत्रस्य "ब्राह्मण" इति पदात् अस्य "ब्राह्माधिकरण" नाम । अत्र श-भा-रा-नि-म-श्री-व-भाष्येषु अधिकरणम् आरब्धम् । श्रीपतिभाष्ये तु एतत् सूत्रं तदीयद्वितीयाधिकरणस्य चतुर्षु सूत्रेषु द्वितीयं सूत्रम् । श-भा-रा-म-श्री-भाष्येषु सूत्रत्रय गृहीतम् । निम्बार्कमाप्ये तु सूत्रपञ्चकं, चल्लममाप्ये च सूत्राष्टकम् इति विशेषः । अ-भा-रा-नि-श्री- भाष्येषु एतद्धि तृतीयम् अधिकरणम्, माध्यमाज्ये तु पञ्चमम् अधिकरणम्, वल्लभभाष्ये च द्वितीयम् अधिकरणम् । तच्च सूत्रत्रयम् १। " ब्राह्मण जैमिनिरुपन्यासादिभ्य " ४/४/५ ( ५३८ ) २। “चिति तन्मात्रेण तदात्मकत्वादित्यौडुलोमिः” ४|४|६ ( ५३९ ) ३। “एवमप्युपन्यासात् पूर्वभावादविरोध वादरायणः” ४/४/७ (५४० ) अत्र (१) “ब्राह्मण जैमिनिरुपन्यासादिभ्यः " ४/४/५ (५३८) इत्यत्र “जैमिनि " इति मतान्तरज्ञापकप्रथमान्त-नाम-पदसत्त्वात् अत्र अधिकरणारम्भ युक्तः । २०श विशेषनियमात, तथापि अस्य विधेयभेदात् " मुक्त " इति प्रथमान्त किञ्चित् पदम् अध्याहृत्य तत् करणीयम् । अन्वयार्थ वृत्ति द्रष्टव्या, ५म सामान्यनियमात् ४६ विशेषनियमात् । श्रीपतिमाप्ये अधिकरणस्य अनारम्भात् दोप. 1 3 ( २ ) " चिति तन्मात्रेण तदात्मकत्वाद् औडलोमि " ४|४|६ (५३९) इत्यत्र "ओलोमि" इति प्रथमान्तपदमत्त्वेऽपि ४र्थ सामान्यनियमात् प्रथमान्तनाम-पदेन प्रतिकूलमनान्तरस्य निर्देशात् नास्य अधिकरणारम्भकलं युक्तम् । १०म विशेषनियमात् । , (३) "एवमप्नुपन्यासान् पूर्वभावादविरोध वादरायण" ४४७ (५४०) इत्यत्र "वाढरायण" इति प्रथमान्तपदेन पूर्वपक्षवर्णनानन्तर स्वमतप्रदर्शनात् "एवमपि इति" पदाम्यां च सारादन्यसिद्धे नाव अभिकरणारम्भकत्वम् । अर्थ सामान्यनियमान् ६४, १०म विशेषपर से समय अधिकरणस्य आरम्भात अव अधिकरणसमाप्तिश्च ।
SR No.010175
Book TitleBramhasutra Bhashya Nirnaya
Original Sutra AuthorN/A
AuthorRamkrishna Sevamrut Prakashan Kashi
PublisherRamkrishnua Sevamrut Prakashan Kashi
Publication Year1835
Total Pages555
LanguageHindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy