________________
९४ व्यासस मत-ब्रह्मसूत्रभाष्यनिर्णयः ( इयः पादः) विशेषनियमात् । परन्तु तन्नात्र सम्भवेत् , “अणु" इति पदस्थ पूर्ववर्तिन “उत्क्रान्तिगत्यागतीनाम्” इति ५८४यन्तसूत्रस्य सम्बन्धिघटकत्वात् आकाक्षापरिपूरकत्वाद् वा , “उत्क्रान्तिगत्यागतीनाम्” इति सूत्रस्य अधिकरारम्भकत्वसम्पादनाथ प्रवृत्तस्य नोचितं स्वस्थ पृथाधिकरणारम्भकत्वम् । अतो न चतुर्दशविशेषनियमस्य व्याघात. । ततश्च न एकस्मिन्नपि भाष्ये अस्य अधिकरणारम्भकत्व दृश्यते । अत' नासंगतम् एतादृशकल्पनम् । चतुर्थसामान्यनियम द्रष्टव्य, तथा पञ्चमचतुर्दशविशेषनियमो द्रष्टव्यौ।
( ४ ) "स्वशब्दोन्मानान्या च” २१३।२२ (२३७) इत्यत्र प्रथमान्तपदामावात् अध्याहतेऽपि चकारयोगात् नास्य अधिकरणामकापम् । चतुर्थसामान्यनियमात् तथा पष्ठविशेषनियमात् ।
(५) "अविरोधश्चन्दनवत्” २।३।२३ ( २३९) इत्यत्र प्रथमन्तिपदसत्त्वेऽपि नास्य अधिकरणाम्मकत्वम्, चन्दनहटान्तेन अविरोधसाधनात् । कस्य केन सह अविरोव इति आकाक्षाया सूत्रस्य साकाक्षत्व सिद्धयति । चतुर्थसामान्यनियमात् तत' सप्तमविशेषनियमात् च नास्य अधिकरणारम्भकत्वं युक्तम् ।।
(६ ) “अवस्थितिशेप्यादिति चेन्नाभ्युपगमाद्धृदि हि" २।३।२४ (२४० ) इत्यत्र प्रथमान्तपदाभावात् ततश्च “इति चेन्न” इति पदस्य सत्वात् नास्यापि अधिकरणारम्भकत्वम् । चतुर्थसामान्यनियमात् , पञ्चमविशेषनियमाच्च ।।
(७) "गुणा वा लोकवत्" २।३।२५ ( २४१ ) इत्यत्र प्रथमान्तपदाभावात् नास्य अधिकरणारभकत्वम् । चतुर्थसामान्यनियमात् । तादृशपदस्य अध्याहारेऽपि “वा" शब्देन विकल्पविधानात् अत्र साकाक्षत्वं कल्पयितुं शक्यम् । षष्ठविशेषनियमात् ।
( ८ ) "व्यतिरेको गन्धवत्" २।३।२६ ( २४२ ) इत्यत्र “व्यतिरेक” इति प्रथमा-तपदात् अस्य अधिकरणारम्भकल्प युक्तम् । माध्वभाप्येऽपि तथैव कृतमिति दृश्यते । परन्तु सप्तसु भाष्येषु नैतत् कृतम् । अत “व्यतिरेक "-०देन कस्य यतिरेक इत्येव साकाक्षत्वं कल्पयित्वा अधिकरणामस्य अनौचित्य कल्पनीयम् , सप्तमविशेषनियमात् । अत माध्वभाप्ये अधिकरणारम्भात् दोष । तन्मते अत्र त्रयोदशाधिकरणस्य आरम्भ । रा-नि-म-श्री-श्रीप-भाष्येषु पतत्सूत्रपित्वेन परसूत्र पठ्यते । तन्न युक्तम् । चकारात् पृथगहेतुत्यस्य सूचनात् , चतुर्थसामान्यनियमाच्च ।
(२) "तथा च दर्शयति" २।३।२७ (२४३ ) इत्यत्र प्रथमान्तपदाभावात् नाम्य अधिकरणारम्भकत्वम् । अव्याहारेऽपि चकार एव तस्य वाधकः । चतुर्थसामान्यनियमात् , पाठविशेषनियमात् च । रा-नि-म-श्री-श्रीप-भाप्येषु एतत्सूत्र पूर्व सूत्रस्य शेषतया पटितम् । तत्रापि नि-श्री-चल-भाप्येषु चकारस्थाने हिकारस्य पाट दृश्यते । माध्वभाप्ये पूर्वसूत्रस्य अंगतया अनेन अधिकरणम् आरब्धम् । एतस्य पूर्वरसूत्रागत्व न युक्तम इति तृक्तमेव । चतुर्थसामान्यनियमात ।