SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ २८४ व्याससम्मत ब्रह्मसूत्रभाष्यनिर्णयः ( २यः पादः ) अध्यायसंगतिरिति उच्यते । पादप्रतिपाद्यविषया एव पादसंगतयः । शांकरमतानुसारेण पादप्रतिपाद्यविषयाः प्रागेव प्रदर्शिता, ते एवात्र पादसंगतित्वेन ग्रहणीया । शांकरव्याख्यानस्यैव अधिकसम्मतत्वेन दोषाल्पत्वात् । तत्रापि उपलभ्यमानाना भाष्याणां मध्ये प्राचीनतमत्वमपि शाकरव्याख्यानस्य उत्कर्षसाधकम् । शाकरव्याख्यानादीना खण्डनाय प्रवृत्ताना भाष्याणा शंकरभाण्यादपि प्राचीनतर माण्यादीनाम् अप्रदर्शनात् अपकृष्टत्वम् इत्यपि अवधेयम् । एव च सर्वशास्त्रपारशा अलौकिक शक्तिसम्पन्नानाम् आसमुद्र-हिमाचल विश्रान्तसम्प्रदायप्रवर्त्तकानाम् अवतारकल्पानां महात्मनाम् आचार्याणाम् अनुमोदनाधिक्यम् अवलम्ब्य व्याससम्मतसूत्रार्थनिर्णय समुचित इत्येव अविसंवादिमार्गमक परिकल्प्य, शंकरसम्मतपादार्थ एव व्यासानुमोदिता पादसगतिरिति उत्पश्याम' | इदानीं द्रष्टव्य कीदृशी सा पादसंगति अधिकरणसगतिश्च इति, यच्च संगतिद्वयम् अधिकरणार्थनिर्णयद्वारा सूत्रार्थनिर्णये तथा च व्यासमतविनिर्णये आवश्यकम् । तत्र अधिक करणसगतिरत्र बहुविधा, यथा, आक्षेपिकी संगति, उदाहरणसगतिः, प्रत्युदाहरणसंगति, प्रसर्गसंगति, एकफलत्वसंगति, दृष्टान्तसंगति, उपजीव्योपजीवकभावसंगतिः, हेतुहेतुमद्भावसंगतिरित्याद्याः । एतासा बलावल विनिर्णयद्वारा सूत्रव्याख्यानयौक्तिकत्वमपि निर्णेतव्यम् । यथा यदि केनचिद् आचार्येण अधिकरणविशेषस्य पूर्वाधिकरणेन सह सम्बन्धः क्रियते प्रसगसगत्या, तदनुसारेण अधिकरणान्तर्गतसूत्राण्यपि व्याख्यायन्ते, अन्येन तु तदेव आक्षेपसंगत्या दृष्टान्तसगल्या वा कृत स्यात्, तदा प्रसंगसगत्यनुसारिख्याख्यानात् अपव्याख्यान युक्ततरमिति भवितुम् उचितम् । प्रसंगसंगत्या. दुर्बलत्वात् । एवं च अन्यत्रापि यथासम्भवं बोद्धव्यम् । अतः अधिकरणसगतिरपि सूत्रार्थनिर्णये तथा व्यासमतविनिर्णये आवश्यकी । तथैव अधिकरणमध्येऽपि, यत्र एकाधिकानि सूत्राणि वर्त्तन्ते तत्र सूत्राणाम् अर्थनिर्द्धारणे मिथः संगतिरपि उपकारिणी भवति । तत्रापि यस्मिन् भाष्ये पूर्वसूत्रेण सह परसूत्रस्य प्रसंगसगत्या अर्थनिर्द्धारणं क्रियते, तत्र चेद् भाष्यान्तरे आक्षेपादि-संगत्या अर्थान्तर निर्दिष्ट स्थात्, तदा एतद् भाण्यान्तरव्याख्यानमेव युक्ततर भवति । यथा आनन्दमयाधिकरणे अष्टाना सूत्राणा मध्ये सप्तम यत् "कामाच्च नानुमानापेक्षा" १|१|१८ इति सूत्र, तस्य वृत्तिकृन्मतेन यद् व्याख्यान तंत्र साख्यमतखण्डनात् तत्प्रासंगिक्रम् इति उक्त दृश्यते, परन्तु भगवत्पादीयव्याख्याने तत्सूत्रार्थ. आक्षेपसंगत्या सम्बध्यते । अत अत्र भगवत्पादीयव्याख्यानस्य केवल सगतिमात्रविचारेण युक्ततरत्वं कल्पयितुं शक्यते । एव च एतादृशसगतिविचारस्य महदुपयोगित्व वर्त्तते एव । परन्तु एतदर्थम् अस्माभि सूत्रकृताम् अधिकरणसूत्रयो. रचनाकौशलम् अवगन्तत्यम् । यत अधिकरणारम्भयेपयो तथा अधिकरणान्तर्गतविपयमेदस्यापि न किमपि निदर्शन सूत्रमध्ये पत्रा सूत्रकृद्भिरिति प्रतीयते । विभिन्नमाप्येषु विषयेऽस्मिन् सम्यक् ऐकमत्यमपि न दृश्यत
SR No.010175
Book TitleBramhasutra Bhashya Nirnaya
Original Sutra AuthorN/A
AuthorRamkrishna Sevamrut Prakashan Kashi
PublisherRamkrishnua Sevamrut Prakashan Kashi
Publication Year1835
Total Pages555
LanguageHindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy