________________
१०४
जैन - प्रन्थ-संग्रह |
!
श्वरः ॥ ६ ॥ सिद्धो बुद्धः प्रबुद्धात्मा सिद्धार्थः सिद्धशासनः । सिद्धः सिद्धान्तविद्धयः सिद्धसाध्यो जगद्धितः ॥ १० ॥ सहिष्णुरच्युतोऽनन्नः प्रभविणुभवोद्भवः । प्रभूष्णुरजरोऽजर्यो भ्राजिष्णुर्धीश्वरोऽव्यः ॥ ११ ॥ विभावसुरसंभूष्णुः स्वयंभूष्णुः पुरातनः । परमात्मा परमज्योतित्रिजगत्परमेश्वरः ॥ १२ ॥
इति श्रीमदादिशतम् ॥ १ ॥
दिव्यभाषापतिर्दिव्यः पूतवाक्पूतशासनः । पूतात्मा परमज्योतिर्धर्माध्यक्षो दमीश्वरः ॥ १ ॥ श्रीपतिर्भगवानर्हश्शरजा विरजाः शुचिः । तीर्थ कृत्केवलीशानः पूजार्हः स्नातकोऽमलः ॥ २ ॥ अनन्त दीप्तिर्ज्ञानात्मा स्वयंवुद्धः प्रजापतिः । मुक्तः शको निराबाधो निष्कलो भुवनेश्वरः ॥ ३ ॥ निरञ्जनो जगज्ज्योतिर्निरुकोक्तिर्निरामयः । अचलस्थितिरिक्षोभ्यः कूटस्थः
स्थाणुरक्षयः ॥ ४ ॥ अग्रणीर्ग्रामणीर्नेता प्रणेता न्यायशास्त्रकृत् । शास्ता धर्मपतिद्ध धर्मात्मा धर्मतीर्थकृत् ॥ ५ ॥ वृषध्वजो वृषाधीशो वृषकेतुर्वृषायुधः । वृषो वृषतिर्भर्ता वृषभाङ्को वृषोद्भवः ॥ ६ ॥ हिरण्यनाभिभूतात्मा भूतभृद्भूतभावनाः । प्रभवो विभवो भास्वान् भवो भावो भवान्तकः ॥७ ॥ हिरण्यगर्भः श्रीगर्मः प्रभूतविभवोद्भवः । स्वयंप्रभुः सर्वदृक् सार्वः सर्वज्ञः सर्वदर्शनः । सर्वात्मा सर्वलोकेशः सर्ववित्सर्वलोकजित् ॥ ६ ॥ सुगतिः सुश्रुतः सुश्रुक सुवाक् सुविहुश्रुतः । विश्रुतो विश्वतः पादो विश्वशीर्षः शुचिश्रवाः ॥ १० ॥ सहस्रशीर्षः क्षेत्रज्ञः सहस्राक्षः सहस्रपात् । भूतभव्यभवद्भर्ता विश्वविद्या महेश्वराः ॥ ११ ॥
इति दिव्यादिशतम् ॥ २ ॥