________________
Ce
)
कायेन वाचा मनमा विशुद्धया तं मल्लिनाथं प्रणमामि भक्त्या ॐ ह्रीं श्रीमल्लिनाथाय धूपम्
ब्रुवन्नमः सिद्धपदाय वाक्यमित्यग्रहीद्यः स्वयमेव लांचं । लौकांतिकेभ्यः स्तवनं निशम्य वंदे जिनेशं मुनिसुव्रतं तं ॥ ॐ ह्रीं श्रीमुनिसुव्रतनाथाय धूपम् विद्यावत तीर्थकराय तस्मायाहारदानं ददतो विशेषात् । गृहे नृपस्याजनि रत्नवृष्टिः स्तौमि प्रणामान्नयतो नमिं तम् ॐ ह्रीं श्रीनमिनाथाय धूपम्
राजीमती यः प्रविहाय मोक्षे स्थितिं चकारापुनरागमाय । सर्वेषु जीवेषु दयां दधानस्तं नेमिनाथं प्रणमामि भक्त्या ॥ ॐ ह्रीं श्रीनमिनाथाय धूपम्
सर्पाधिराजः कमठारितोयैर्ध्यानस्थितस्यैव फरणावितानैः । यस्योपसर्ग निवर्तयत्तं नमामि पार्श्व महतादरंग || ॐ ह्रीं श्रीपार्श्वनाथाय धूपम् भवार्णवं जन्तुसमूहमेनमाकर्षयामास हि धर्मपोतान । मज्जंतमुद्वीक्ष्य य एनमापि श्रीवर्द्धमानं प्रणमाम्यहं तम् || ॐ ह्रीं श्रीवर्द्धमाननाथाय धूपम् पीठिका के मन्त्र
ॐ मत्यजाताय नमः || १ || ॐ अर्हज्जाताय नमः ||२|| ॐ परम जाताय नमः ||३|| ॐ अनुपमजाताय नमः ||४|| ॐ स्वप्रधानाय नमः ||५|| ॐ चलाय नमः ||६||