________________
धर्मःसर्वसुखाकरो हितकरो धर्म बुधेश्चिन्वते । धर्मेणैव समाप्यते शिवसुखं, धर्माय तस्मै नमः ॥ धर्मान्नास्त्यपरः सुहृद्भवभूता, धर्मस्य मूलं दया । धर्मे चित्तमहं दधे प्रतिदिनं, हे धर्म ! मां पालय ॥७॥ ___ॐ ही सर्वज्ञवीतरागप्रणीतशास्वतधर्माय जलादिभिरर्चयामि। कृत्याकृत्रिमचारुचैत्यनिलयान्नित्यं त्रिलोकीगतान् । वन्दे भावनव्यन्तरान् द्युतिवरान्कल्पामरान्सर्वगान् । सद्गन्धाक्षतपुष्पचारुवरुभिर्दीपेश्च धूपैः फलैः । नीराद्यैश्च यजे प्रणम्य शिरसा दुष्कर्मणां शान्तये ।।
ॐहीं त्रिलोकवर्तिश्रीजिनालयेभ्यो जलादिभिरर्चयामि । यावन्ति जिनचैत्यानि विद्यन्ते भवनत्रये । तावन्ति सततं भक्त्या त्रिःपरीत्य नमाम्यहम् ॥ __ॐहीं त्रिलोकवर्ति श्रीवीतरागप्रतिविम्बेभ्यो जलादिभिरर्चयामि ।
इति नवदेवपूजा समामा
अष्ट मंगल पाठ
( पूजा के पश्चात निम्न पाठ पढ़े) श्रीमन्नम्रसुगमुरेन्द्रमुकुटप्रद्योतरत्नप्रभाभास्वत्पादनखेन्दवः प्रवचनांभोधीन्दवः स्थायिनः ।। ये सर्वे जिनसिद्धसूर्यनुगतास्ते पाठकाः साधवः । स्तुन्या योगिजनैश्च पञ्चगुरवः कुर्वन्तु ते मंगलम् ॥१॥अर्घ