________________
५२४
जैन-शिलालेख-संग्रह
वीर-श्री-वर-देव-राय-नृपतेस्सद्-भागिनेयेन वै पद्माम्बा ... गर्भ-वार्डि-विधुना राजेन्द्र-वन्द्यामिणा । श्रीमत्-साळुव-कृष्ण-देव-धरणीकान्तेन भक्तयार्चितो विद्यानन्द-मुनीश्वरो विषयते स्यादाद-विद्या-फलः ।। श्रीमद्विद्यानन्द-खामिनममराचलं मन्ये ।। द्विन-विबुध-कवि-गुरूणां सन्दोहस्सेवतेऽन्यथा कथं भुवने ॥ किं वाणी चतुराननः किमयवा वाचस्पतिः किन्वसौ विद्यानां विभवस् सहस्रवदनः साक्षादनन्तः किमु । इत्थं संसदि साधवस्समुदितास्संशेरते सादरम् विद्यानन्द-मुनौ बुधेशभवन-व्याख्यानमातन्वति ॥ यो विद्यानगरी-धुरीण-विनय-श्रो-कृष्ण राय-प्रभार आस्थाने विदुषां गणं समजयत् पञ्चाननो वा गजम् । सद्-वाग्भिनखरैरुदात्त-विमल-ज्ञानाय तस्मै नमो विद्यानन्द-मुनीश्वराय जगति प्रख्यात-सत्-कीर्तये ॥ . विद्यानन्द-स्वामिनोऽभूत् सघर्मा विख्यातोऽयं नेमिचन्द्रो मुनोन्द्रः। भूत-बाताम्भोज-वैकासकारो [...] शास्त्राम्भोराशि-संवृद्धिकारी ।। पोम्बुर्व्य-पार्श्वनाथस्य वसतिं श्री-त्रि-भूमिकाम् । कृत्वा प्रतिष्ठा महती सन्तनोति स्म भक्तितः ॥ विद्यानन्द-खामिनः पुण्य-मूर्तेः बीयात् सूनुश्श्री-विशालादिकीर्तिः । विद्वदन्यः सर्व-शास्त्रावतारो . माद्यद्-वादीभेन्द्र-संघात-सिंहः ।। वादि-
विशाखकोषि-मुखि-राडू विबुष-स्तुत-सद्-गुणोदयः क्षमाधिप-संसदप्रतिम-वाक्य-निराकृत-सरि-सन्ततिः ।