________________
श्रीजिनाय नमः
-
-
जैनपुरातत्व और इतिहास-विषयक पाण्मासिक पत्र भाग १८ } जून १९५१ । आषाढ़, वीर नि० सं० २४७७
जयतु दिवि श्री देवकुमारः
किरण १
जयतु दिवि श्री देवकुमारः ! वाल्ये विहित सुविद्याभ्यासः,
विहित-विविध वुध-कला-विलासः, सतत-सत्य व्रत-नियम-पालने
रतः प्रणत उन्नतोऽत्युदार: ! जयतु दिवि श्रीदेवकुमारः।
धर्ममतियतिरिव गतरागः,
धर्म-विधौ कृत-भूरि-त्यागः, जैन-समाज-सुधीः वसुधायां
कोऽप्यासीत् देवतावतारः! जयतु दिवि श्रीदेवकुमारः !
यस्य च दाने धनोपयोगः,
यस्य यौवने मर्त्य-वियोगः, यस्य यशः प्रसरति दिशि-दिशि रे
कुत्र सोऽद्य कियतामाधारः ! जयतु दिवि श्रीदेवकुमारः।
-रामनाथ पाठकः 'प्रणयी'
साहित्य-व्याकरणाचार्य: