________________
उपोद्घातः।
अथ प्रक्रम्यतेऽयं बौद्धाधिकारापरपर्याय आत्मतत्त्वविवेको न्या. याचार्योदयनेन विगुम्फितः कल्पलतादीधितिभ्यां तथाच दीधिति. टिप्पण्या समलङ्कृतो मुद्रापयित्वा प्रकाशयितुम् । अद्यत्वे बौद्धदर्शनस्य बहुलमधीतत्वात् तदीयप्रचाराधिक्यं विद्वतस्वनुमीयते । तेन तन्मतनिरसनपरग्रन्थस्यापि समालोचनमावश्यकमित्यात्मतत्त्व विवेकस्य प्रकाशनेऽयमेवावसर इति निर्विवादम् । गुणगरिम्णा ले. खप्रौढ्या च महनीयोऽप्ययं ग्रन्थो पठनपाठनादिसम्प्रदायबहिष्कृतो न तथा प्रसिद्धिमाप यथा युज्यते । तत्र सुसंस्कृतपुस्तकाभावः, विषयस्य दुरवगाहत्वं, बौद्धानामभावात् तन्मतालोचने तादृशान. हाभावः, अवैदिकमतमिति वेदाचारवतां तत्रोपेक्षणमिति चत्वार एव हेतवः । तेषु श्रमेण पुस्तकान्तरसंवादपूर्वकं ग्रन्थशोधनेन तत्. प्रकाशनेन च प्रथमहेतोः, व्याख्यानसंयोजनेन मूलपाख्यानवै. शधं सम्पाद्य ग्रन्थकर्तुरभिप्रायस्योद्धाटनेन च द्वितीयहतोरपसारणमुहिश्य समुद्यमोऽयं प्रारब्धः। तृतीयो हेतुर्मतिमान्द्यनिमिचकः, असत्स्वपि बौद्धेषु तन्मतस्य बुद्धिविजृम्भणद्योतकत्वात् तत्फल. कत्वाच्च परिशीलनमवश्यमेव कर्त्तव्यं कल्पितपूर्वपक्षसमालोच. नस्यापि सिद्धान्तस्थापनार्थ विधेयत्वात् । चतुर्थो हेतुस्तु कु. संस्कारमूलक एव ।
तत्र खलु बौद्धानामात्मवादस्य नितरां विद्विष्टवादात्मतस्वविवेके तेषामात्मविषयकविप्रतिपत्तीनां समुद्धरणं विमईनं च कृतम् । यद्यपि लौकायतिकादयो बहव एव पक्षा उदयनसम्मतात्मवादविरोधिनस्तथापि बौद्धानामेव तत्र प्रबलत्वाद् दुर्निग्रहत्वात् तत्सम्प्रदायस्य च व्यापकत्वात्तन्मतमेव प्राधान्येनाक्षिप्तमस्ति । क्षणभङ्गवादो विज्ञानपादः शुन्यवादश्च महताअटोपेन समुदृङ्किताः । कुसुमाञ्जलिप्रकरणे सावच्चार्वाकादिनिरीश्वरमतानां विमर्शनं कृतम् । उदयनस्य प्रादुर्भा. वकाले सर्वत्रैव दार्शनिका धर्मविदश्च परस्परं विवदमाना-आसन्निति घरदराजकृतायाः कुसुमाञ्जलिषोधिन्या उपोद्धाते सनासतोऽस्माभिरा.