________________
प्रार्थना पञ्चविंशतिः
२३७ विभासते यत्र मरीचिमालि, न्यविद्यमाने भुवनावमासि । स्वात्मस्थितं बोधमयप्रकाश, तं देवमाप्तंशरणं प्रपद्ये विलोक्यमाने सति यत्र विश्वं, विलोक्यते स्पष्टमिदं विविक्तम् । शुध्धं शिवं शान्तमनाद्यनन्तं, तं देवमाप्तं शरणं प्रपद्ये ॥१२॥ येन क्षता मन्मथमानमूर्छा-विषादनिद्राभयशोकचिन्ताः। क्षय्योऽनलेनेव तस्प्रपञ्च-स्तंदेवमाप्तं शरणं प्रपद्ये ॥१३॥
प्रतिक्रमण-[प्रभु समीपेस्वात्मचितनं.] विनिन्दनालोचनगर्हणैरह, मनोवाकायकषानिर्मितम् । निहन्मि पापं भवदुःखकारण, मिषग्विषं मन्त्रगुणैरिवाखिलम् ॥१४॥ अतिक्रमं यं विमतेव्यतिक्रम, जिनाऽतिचार सुचरित्रकर्मणः । व्यधामनाचारमपि प्रमादतः, प्रतिक्रम तस्य करोमि शुद्धये ॥१९॥ न संस्तरोऽश्मा न तृण न मेदिनी, विधानतो नो फलको विनिर्मितः । यतो निरस्ताक्षकषायविद्विषः, सुधीमिरात्मैव सुनिर्मलो मतः ॥१६॥ न संस्तरो भद्र! समाधिसाधनं, न लोकपूजा न च संघमेलनम् । यतस्ततोऽध्यात्मरतोभवाऽनिश, विमुच्य सर्वामपिवाह्यवासनाम् ॥१७॥ न सन्ति बाह्या मम केचनार्थाः, भवामि तेषां न कदाचनाहम्। इत्थं विनिश्चित्य विमुच्य बाह्यं, स्वस्थः सदा व भव भद्रा मुक्तये ॥१८॥ आत्मानमात्मन्यविलोक्यमान-स्त्वं दर्शनज्ञानमयो विशुद्धः, एकाग्रचित्तः खलु यत्र तत्र, स्थितोपि साधुलभते समाधिम् ॥१९॥ एका सदा शावतिको ममात्मा, विनिर्मल: साधिगमस्वमावः, बहिर्मवाः सन्त्यपरे समस्ताः, न शाश्वताः कर्मभवाः स्वकीयाः ॥२०॥ यस्यास्ति नेक्यं वपुषापि सार्ध, तस्यास्ति किं पुत्रकलत्रमित्रा, पृथकृते चर्मणि रोमकूपाः, कुतो हि तिष्ठन्ति शरीरमध्ये ॥२१॥