________________
भक्तामर स्तोत्रम् मन्ये वरं हरिहरादय एव दृष्टा 'दृष्टेषु येषु हृदयं त्वयि तोषमेति, किं वीक्षितेन भवता भुवि येन नान्यः, कश्चिन्मनोहरति नाथ भवांतरेऽपि२१॥ स्त्रीणां शतानि शतशो जनयति पुत्रान्, नान्यासुतं त्वदुपमं जननी प्रसृते । सर्वादिशोदधतिभानिसहस्ररश्मि, प्राच्येवदिगजनयतिस्फुरदंशुजालम् ॥२२॥ स्वामामनंति मुनयः परमं पुमांस-मादित्यवर्णममलं तमसः पुरस्तात् । त्वामेव सम्यगुपलभ्य जयंति मृत्यु; नान्यःशिव:शिवपदस्य मुनीद्री पंथाः२३।। त्वामव्ययं विभुमचित्यमसंख्यमाचं, ब्रह्माणमीश्वरमनंतमनंगकेतुम् | योगीश्वरं विदितयोगमनेकमेकं, ज्ञानस्वरूपममलं प्रवदंति संतः ॥२४॥ बुद्धस्त्वमेवविबुधार्चितबुद्धिबोधात् , त्वं शंकरोऽसिभुवनत्रयशंकरत्वात् । धातासिधीर:शिवमार्गविधेविधानात् ,व्यक्त त्वमेवभगवन् पुरुषोत्तमोऽसि२६॥ तुभ्यं नमस्त्रिभुवनातिहराय नाथ, तुभ्यं नमः क्षितितलामलभूषणाय । तुभ्यं नमस्त्रिजगतः परमेश्वराय, तुभ्यं नमो जिनभवोदधिशोषणाय ॥२६॥ को विस्मयोऽत्र यदिनाम गुणैरशेष-स्त्वंसंश्रितो निरवकाशतया मुनीश । दोषेरुपात्तविविधाश्रयजातगर्वैः, स्वप्नातरेऽपि न कदाचिदपीक्षितोऽसि||२७|| उच्चैरशोकतस्संश्रितमुन्मयूख-माभाति रूपममलं भवतोनितांतम् । स्पष्टोल्लसत्किरणमस्ततमोवितान, विम्वं रवेरिव पयोधरपार्श्ववर्ति. ॥२८॥ सिहासने मणिमयूखशिखाविचित्रे, विभ्राजते तव वपुःकनकावदातम् | विंबं वियद्विलसदशुलतावितानं, तुंगोदयाद्रिशिरसीव सहस्ररश्मेः ॥२९॥ कुंदावदातचलचामरचारुगोम, विभ्राजते तववपुः कलधौतकांतम् । उद्यच्छशांकशुचिनि:रवारिधार-मुच्चैस्तटं सुरगिरेरिव शातकौमम् ॥२०॥ छत्रत्रयं तव विभाति शशांककांत-मुच्चे:स्थित स्थगितभानुकरप्रतापम् । मुक्ताफलप्रकरजालविवृद्धशोभ-प्रख्यापयत्रिजगतः परमेश्वरत्वम् ॥३१॥