________________
१८२
श्री जन पूजा-पाठ संग्रह। हिमवन्महाहिमवन्निषधनीलरुक्मिशिखरिणो वर्षधरपर्वताः ।११। हेमार्जनतपनीयवैडूर्यरजतहममयाः ।१२। मणिविचित्रपार्श्व उपरिमूले च तुल्यविस्ताराः ।१३। पद्ममहापद्मतिगिंछकेशरि महापुंडरीकपुंडरीकाहदास्तेषामुपरि ।१४। प्रथमो योजनसहस्रायामस्तदद्ध विष्कंभो ह्रदः ।१५। दशयोजनावगाहः ।१६। तन्मध्ये योजनं पुष्करं ।१७। तद्विगुणद्विगुणा ह्रदाः पुष्कराणि च ।१८। तन्निवासिन्यो देव्यः श्री ह्रीधृतिकीर्तिबुद्धिलक्ष्म्यः पल्यापमस्थितयः ससामानिकपरिषत्काः ।१६। गंगासिंधुरोहिद्रोहितास्याहरिद्धरिकांतासीतासीतोदानारीनरकांतासुवर्णरूप्यकूलारकारकोदाः सरितस्तन्मध्यगाः ।२०। द्वयोईयोः पूर्वाः पूर्वगाः । २१। शेषास्त्वपरगाः ।२२॥ चतुर्दशनदीसहस्रपरिवृता गंगासिंवादयो नद्यः । २३ ॥ भरतः षड्विंशतिपंचयोजनशतविस्तारः षट्चैकोनविंशतिभागा योजनस्य