________________
श्री जन पूजा-पाठ संग्रह दर्शनं जिनचन्द्रस्य, सद्धर्मामृतवर्षणं । जन्मदाहविनाशाय, वर्धनं सुखवारिधेः ।।५।। जीवादितत्वंप्रतिपादकाय, सम्यक्त्वमुख्याष्टगुणार्णवाय । प्रशांतरूपाय दिगंबराय, देवाधिदेवाय नमो जिनाय ॥६॥ चिदानन्देकरूपाय, जिनाय परमात्मने । परमात्मप्रकाशाय, नित्यं सिद्धात्मने नमः ॥७॥ अन्यथा शरणं नास्ति, त्वमेव शरणं मम । तस्मात्कारुण्यभावेन, रक्ष रक्ष जिनेश्वर ! |८|| न हि त्राता न हि त्राता, न हि त्राता जगत्त्रये । वीतरागात्परो देवो, न भूतो न भविष्यति ।।९।। जिने भक्तिर्जिने भक्तिर्जिने भक्तिर्दिने दिने । सदा मेऽस्तु सदा मेऽस्तु सदा मेऽस्तु भवे भवे ॥१०॥ जिनधर्मविनिमुक्तो, मा भवेच्चक्रवर्त्यपि । स्याच्चेटोऽपि दरिद्रोऽपि जिनधर्मानुवासितः ॥११॥ जन्म जन्म कृतं पापं, जन्मकोटिमुपार्जितं । जन्ममृत्युजरारोग, हन्यते जिनदर्शनात् ।।१२।।
अद्याभवत्सफलता नयनद्वयस्य, देव त्वदीय चरणांबुजवीक्षणेन । अद्य त्रिलोकतिलकं प्रतिभाषते मे, संसारवारिधिरयं चुलुकप्रमाणम् ॥१३॥