SearchBrowseAboutContactDonate
Page Preview
Page 6
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अयं ग्रंथो अध्यात्ममार्गे-मोक्षमार्गे प्रस्थितानां सफलीभूतानां मुनिवराणां जीवनगाथारूपोऽस्मिन् प्रन्थे एकाशीतिमहापुरुषचरित्रजीवनसौरभता. क्रोधत्याग-मानत्याग-भायात्याग-लोभत्याग-सामायिक-प्रतिक्रमण-न्यायपरीषहसहन इत्यादि विवधगुणपरिकर्मितमहापुरुषाणां जीवनगाथाचिन्तनेन क्रोधत्यागादिगुणा वाचकमनसि आविर्भवेयुः। क्रोधादिकारणसमुत्पन्ने संयतपथादर्शस्मरणेन तञ्जयाय प्रयत्नशीलाश्च वाचका भवेयुः इत्येव एतच्चरित्रनिर्देशस्य फलं. अतिमुक्तकमुनि-सुकोशलमुनि-कार्तिकश्रेष्ठिचिलातीपुत्रादिकथानां निर्देशस्य फलं वैराग्यभावनाविर्भावः वाचकहृदये प्रसरतु इत्येव अयं ग्रन्थो पूर्वाचार्यगुम्फितऋषिमण्डलवृत्ति-योगशास्त्र-उत्तराध्ययन-त्रिषष्ठिशलाकापुरुषचरितादिविविधग्रन्थोधृतचरितसंकलनारूपोऽतोऽस्य ग्रन्थस्य प्रणेतारः जैनशासनप्रभावककार्योंदिपितजीवनसौरभाः धर्मघोषवरि-कलिकालसर्वज्ञ हेमचन्द्रसविराधनेकतत्तद्ग्रन्थकारपूर्वमहर्षय एव .. अत्र ग्रन्थनिर्माणे न काचिदस्माकं मनीषा, बुद्धिप्रागलभ्य, चातुर्य, विद्वत्वं च, वैराग्यमेवाभयं इति पद्य सततपरिशीलनरतः वैराग्यवाहितान्तकरणः पूज्यप्रवरशान्तमूर्तिपन्यासप्रवर कैलाससागरगणिवरैः अस्य ग्रन्थस्य संकलना स्वपठनपाठनगतवैराग्य चाहिचरित्राणां संग्रहेण कृता. अस्य ग्रन्थस्य प्रकाशनं च तैरेव पूज्यप्रवरः वैराग्यप्रपारूपग्रन्थावलोकनश्रवणेन प्रशमीभूता भव्या निर्वेदमासाद्य भद्रं साधयन्तु इत्येकं कारणं पुरस्सरीकृत्याध. एष आशयः वाचका सफलीकुर्वन्तु इत्याशास्महे. ___ मुद्रणदोष-दृष्टिदोष-मतिवैकल्यादिभिः या दुर्निवाराः काश्चिदशुद्धयः ताः सर्वे शोधयन्तु विद्वांसः वि. सं. २००७ अश्विनशुक्ल द्वितीया विदुषां वशंवदः अहमदावाद पं. मफतलाल, For Private and Personal Use Only
SR No.010001
Book TitleJain Katharnava
Original Sutra AuthorN/A
AuthorKailassagar Ganivar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year1951
Total Pages269
LanguageSanskrit
ClassificationBook_Devnagari & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy