SearchBrowseAboutContactDonate
Page Preview
Page 4
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व अध्यात्मभावनापरिकलिता भारतीयार्यमहाप्रजासंस्कृतिः संचालकभेदेन द्विविधा ब्राह्मण-संस्कृतिः श्रमण-संस्कृतिश्च, उपनिषद्-स्मृत्यादिविविधग्रन्थपरिभाविता ब्राह्मणसंस्कृतिः भारतवर्षीयवर्णाश्रम-गतव्यवहारशुद्धौ अतीवोन्नतोपकारकुशला द्विविधश्रमणवाहकैः श्रमणसंस्कृतिरपि द्विविधा जैनसंस्कृतिः बौद्धसंस्कृतिश्च. बौद्धसंस्कृतिः कालप्रवाहेण विविधपरावर्तनेन परावर्तिता भारते जाता परिवद्धिताऽपि बहिर्देशेषु स्थिरीभृता, श्रमणसंस्कृतौ भारतवर्षे उत्पन्ना, स्थिरीभूता, परिवर्धिता केवला जैनसंस्कृतिरेव श्रमणसंस्कृतिः. वसुधैव कुटुम्बकं मन्वाना निष्परिग्रहाः ब्रह्मव्रतधरा भैक्ष्यमात्रोपजीविनः सततं तत्वपरिशिलितान्तकरणाः श्रमणाः एव श्रमणसंस्कृतिमूलरूपाः, अस्या श्रमणसंस्कृत्याः प्रभावेणैव गगनचूंबितशिखरबद्धपताकाभिः 'यतो धर्मस्ततो जयः' इति सूत्र सूचयन्तः भारतीयदानप्रवाहद्योतकाः देवप्रासादाः विविधविषयपरिकलिता ज्ञानभण्डाराश्च भारतवर्षीयसौरभरूपा विद्यन्ते. श्रमणसंस्कृतेः प्रधानता अध्यात्मभावना, अध्यात्मभावना च न कदापि वैराग्यविरहिता. विषयवमुख्यं च वैराग्य. परिपूर्णतत्वज्ञानं विना विषयमुख्य कदापि न भवति, अतएव तत्वज्ञानविचारणा उत्पत्ति-स्थिति-नाशतत्त्वत्रयविचारविस्ताररूपागमशास्त्रेषु अनेकविधा दशिता. तत्त्वज्ञान विचारणायां विशिष्टवुद्धिपरिकलिता सच्चा एव समर्था भवन्ति. सामान्यजनास्तु न तथाविधाः, समुद्रेटा सांयात्रिकाणां द्वीपदीपिका यथा मार्गदर्शिन्युपकारिणी तथैव संसारसमुद्रे भ्रमतां जीवानां आध्यात्मपरिप्लुष्टजीवितान्तःकरणानां मुनिवराणां जीवनगाथा एव द्वीपदिपिका. यासामवलम्बनेनानेके जीवा ऐहिकवासनात्यागेन अध्यात्ममार्ग आगच्छन्ति. 蒂蒂器器鉴器器器器器骤器端器蒸蒸蒸蒸蹤器樂器器帶 ॥२॥ For Private and Personal Use Only
SR No.010001
Book TitleJain Katharnava
Original Sutra AuthorN/A
AuthorKailassagar Ganivar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year1951
Total Pages269
LanguageSanskrit
ClassificationBook_Devnagari & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy