________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अन्यच्च युज्यते युद्धं, ज्येष्ठभ्रात्रा समं कथम् ? । कथं भ्रातेति तेनोक्ते, ते सप्रत्ययमाह सा ११६ ॥ तथापि सन्मुखं तस्य, न मानाद् यात्यसावथ[सौ ततः] । सार्या खडकिकिकाद्वारा, प्रविष्टाऽन्तःपुरं द्रुतम्।। प्रविशन्ती नृपावासे, स्वजनैः सोपलक्षिता । नत्वा दत्त्वाऽऽसनं चन्द्रयशाः पुर उपाविशत् ॥ ११८॥ ननामान्तः- पुरीलोको, गलद्वाप्पाविलः पदौ । एतां नृपोऽपृच्छदार्ये !, दुष्करं किं श्रितं व्रतम् ? ॥ ११९ ॥ कुत्रेदानीं मम भ्राता !, रुद्धो येनेति साऽवदत् । निर्गतो नगरात् चन्द्र-यशा हर्षप्रकर्षतः॥१२० ॥ आयान्तं तं]ते नमिर्वीक्ष्य, द्रागुत्थायापतत् पदोः । परमप्रेमनिर्मनौ, प्रविष्टौ भ्रातरौ पुरम् ॥ १२१ ॥ अवन्तीदेशस्वामित्वे, न्यस्य चन्द्रयशा नमिम् । प्रव्रज्य स्गुरूपान्ते, विजहार यथासुखम् ॥ १२२ ॥ भुआनोऽभवदुग्राज्ञो, नमिर्देशद्वयश्रियम् । जज्ञे पाण्मासिको दाघज्वरोऽस्याङ्गेऽन्यदोत्कटः ॥ १२३ ॥ विज्ञेरप्यौपधविधेः, पत्याख्यातश्चिकित्सकैः । घर्षन्ति चन्दनं देध्य आलेपाय महीभुजः॥१२४ ।। तहस्तकङ्कणझणझणद्ध्वनिभिरास्पदम् । पूर्यते ग्राह राजेभिः, कर्णाघातो भवेत् मम ॥ १२५ ।। ततो देवीभिरेकैक, शुश्चन्तीभिः स्वकङ्कणम् । सर्वाप्युत्तारितान्येकं, माङ्गलिवयाय रक्षितम् ॥ १२६ ॥ शब्दायन्ते न कि तानि, राज्ञा पृष्टेऽवदन् स्त्रियः । उत्तारितानि तान्येकं, देव शब्दायते नहि ॥१२७ ॥ तदुःखान्याहतो दध्यौ, परलोकसुखोन्मुखः । अयं दोषो बहूनां ते, कलहायन्ते न चैककः ॥१२८ ॥ उक्तं च-"यथा यथा महत्तन्त्रं, परिकरश्च यथा यथा । त्था तथा महादुःख[-हदुःखं], सुखं च न तथा तथा [१]"। एतेभ्यो यदि रोगेभ्यो, मोक्षो मे प्रव्रजामि तत् । चिन्तयित्वेत्यसौ सुप्तो, राकाऽभूत् कार्तिकी तदा ॥१३०॥
For Private and Personal Use Only