________________
१३६ ]
श्रीसिंह तिलकसूरिविरचितं
पद्ममष्टदले फ'फ' पिण्डान्तः साधकाभिधा ।
मतिपत्रं 'फ' पिण्डं च गाथा स्याद् वलये यहिः ॥ ४७ ॥ भूमण्डलाष्ट दिग्भागे 'फ' पिण्डं पूर्ववत् क्रिया । जापः शतं सहस्रं वा तुल्या (ला) - दिव्यनिषेधनम् ॥ ४८ ॥ पद्ममष्टदलं मध्ये हौ स्याद् 'ह' पिण्डमध्यगम् । साध्यनाम दलेप्यन्तः 'ह' पिण्डं वलये वहिः ॥ ४९ ॥ गाथा भूमण्डलं दिक्षु 'ड' पिण्डं पूर्ववद् विधिः । जापः शतं सहस्रं वा घटसर्पनिपेधनम् ॥ ५० ॥ पद्ममष्टदलं मध्ये को 'क्ष' पिण्डमध्यगम् । साध्यनाम प्रतिपत्रं 'क्ष' पिण्डं पूर्ववद् विधिः ॥ ५१ ॥ गाथा भूमण्डलं दिक्षु 'क्ष'पिण्डं पूर्ववद् विधिः । जापः शतं सहस्रं वा जयेत् पक्षादिजं विपम् ॥ ५२ ॥ पद्ममलं गर्भे 'क्ष' पिण्डं साध्यनामयुक् । 'क्ष' पिण्डं प्रतिपत्रान्तः सगार्थ वलयं वहिः ॥ ५३ ॥ भूमण्डलादिग्भागे 'क्ष' पिण्डं पूर्ववत् क्रिया । जिद्दा - रण-गति क्रोधव्यवहारनिषेधनम् ॥ ५४ ॥ देश-ग्राम-पुरं यद्वा गृहस्यैकस्य वा गवाम् | शाकिन्यादिकृतां मारिं निषेद्धमिह सुव्रती ॥ ५५ ॥ भूर्यादौ चक्रमालिख्य तदेशाद्यभिधायुतम् । कला रक्षां सिकत्थकेनावेष्टय मन्त्राभिमन्त्रितम् ॥ ५६ ॥ कांस्यपात्रे नवे शान्तिप्रतिमाचरणाग्रतः । रक्षां वां त्रिमधुरेणाकण्ठं शान्तिं तु पूरयेत् ॥ ५७ ॥ शान्तिपाठः-
,
मुक्ताखी - गज- रत्न चक्रमहतीं राज्यश्रियं श्रेयसे
माज्या दुरिताश्रयममधनी येन श्रिताऽभूत् पुरा । मृत्यु-व्याधि-जरा-वियोगमगमत् स्थानं च योऽत्यद्भुतं तं वन्दे मुनिमप्रमेयमृषभं सेन्द्रामराभ्यर्चितम् ॥ ५८ ॥