________________
षष्ठाध्यायस्य प्रथमः पादः ॥
[इन्] इन् प्रथमा सि । 'दीर्घयाब् - व्यञ्जनात् से:' (१।४।४५) सिलुक् । [च] च प्रथमा सि । [अन्तस्य ] अन्त षष्ठी ङस् ।
[काल्याणिनेयः] कल्याण 'नवा शोणादेः' (२।४।३१) ङी । कल्याण्या अपत्यं = काल्याणिनेयः । अनेन एयणप्र० → एय - अन्तस्य ई - इन्देशः । वृद्धिः ।
[सौभागिनेयः] शोभनो भगो यस्याः सा = सुभगा । सुभगाया अपत्यं = सौभागिनेयः । अनेन एयणप्र० → एय - आकारस्य इन्देशः । 'हृद्-भग-सिन्धोः' (७।४।२५) उभयपदवृद्धिः ॥छ।।
कुलटाया वा ॥ ६।१७८ ॥ [कुलटाया वा] कुलटा पञ्चमी ङसि । 'आपो ङितां यै - यास् - यास् - याम्' (१।४।१७) ङसि० → यास् । 'सो रुः' (२।१।७२) स० → र० । 'अवर्ण - भो - भगो०' (१।३।२२) रलुक् । वा प्रथमा सि । 'अव्ययस्य' (३।२७) सिलुप् ।
आबन्तत्वादेयण सिद्धः, आदेशार्थं वचनम्, अत एवादेशस्यैव विकल्पः, न त्वेयणः ।
[कौलटिनेयः, कौलटेयः] कुलानि अटति = कुलटा । कुलटाया अपत्यं = कौलटिनेयः । अनेन एयणप्र० → एय - आकारस्य इन्देशो विकल्पेन अनेनैव । एवम् - कौलटेयः । 'ङ्याप्त्यूङः' (६।१७०) एयणप्र० → एय । ___[कौलटेरः] कुलटाया अपत्यं = कौलटेरः । 'क्षुद्राभ्य एरण वा' (६।१।८०) एरणप्र० → एर । 'वृद्धिः स्वरेष्वादेणिति०' (७।४।१) वृ० औ । 'अवर्णेवर्णस्य' (७४/६८) आलुक् । या स्त्री कुलान्यटन्ती, शीलं भिनत्ति, सा कुलटा - असती, तस्याः पुत्रः = कौलटेरः ॥छ।।
चटकाण्णैरः स्त्रियां तु लुप् ॥ ६।१।७९ ।। [चटकात् ] चटक पञ्चमी ङसि । 'उ-ङस्योर्या-5ऽतौ' (१।४।६) ङसि० → आत् ।
[औरः] और प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० । 'र: पदान्ते०' (२।१।७२) विसर्गः ।
[ स्त्रियाम् ] स्त्री सप्तमी ङि । 'स्त्रीदूतः' (१।४।२९) ङि० → दाम्० → आम्० ।
[तु] तु प्रथमा सि । [लुप्] लुप् प्रथमा सि ।
[चाटकैरः] चटक । चटकस्यापत्यं = चाटकरः । अनेन गैरप्र० → ऐर । 'वृद्धिः स्वरेष्वादेणिति तद्धिते' (७।४।१) वृ० आ । 'अवर्णेवर्णस्य' (७४/६८) अलुक् । नामग्रहणे लिङ्गविशिष्टस्यापि ग्रहणात् चटकाया अपत्यं = चाटकैरः । अनेन गैरप्र० → ऐर । वृद्धिः स्वरे०' (७।४।१) वृ० आ । 'अवर्णेवर्णस्य' (७।४।६८) आलुक् । स्त्रियां तु -
[चटका] चटकस्य चटकाया वा अपत्यं स्त्री । अनेन गैरप्र० । अनेनैव लुप् । 'अजादेः' (२।४।१६) आप्प्र० → आ ।
चटकेति जातिशब्दोऽस्त्येव, स्त्रियामपत्ये प्रत्ययाश्रवणार्थं लुब्वचनम् । अस्त्रियामित्येव सिद्धे प्रत्ययान्तरबाधनार्थं गैरविधानम् ॥छ।।