________________
षष्ठाध्यायस्य प्रथमः पादः ॥
४९
[पैलः, पैलेयः] पीला । पीलाया अपत्यं = पैलः । अनेन अण्प्र० → अ । 'वृद्धिः स्वरेष्वादेणिति तद्धिते' (७।४।१) वृ० ऐ । 'अवर्णेवर्णस्य' (७४/६८) आलुक् । अग्रेतने 'द्विस्वरादनद्याः' (६।१।७१) एयणप्र० → एय । 'वृद्धिः स्वरे०' (७।४।१) वृ० ऐ । 'अवर्णेवर्णस्य' (७।४।६८) आलुक् ।
[साल्वः, साल्वेयः] साल्वा । साल्वाया अपत्यं = साल्वः, साल्वेयः । अनेन अण्प्र० → अ । 'द्विस्वरादनद्याः' (६।१।७१) एयणप्र० → एय । 'वृद्धिः स्वरे०' (७४|१) वृद्धिः । 'अवर्णेवर्णस्य' (७।४।६८) आलुक् ।
[माण्डूकः, माण्डूकिः] मण्डूक । मण्डूकस्यापत्यं = माण्डूकः, माण्डूकिः । अनेन अण्प्र० → अ । 'अत इञ्' (६।१।३१) इप्र० → इ । 'वृद्धिः स्वरे०' (७।४।१) वृ० आ । अवर्णेवर्णस्य' (७।४।६८) अलुक् । वाग्रहणं मण्डूकस्येबर्थम् ॥छ।।
दितेश्चैयण वा ॥ ६।१।६९ ॥ [दितेश्चैयण ] दिति पञ्चमी ङसि । च प्रथमा सि । एयण प्रथमा सि । [ वा] वा प्रथमा सि ।
[दैतेयः, दैत्यः] दिति । दितेरपत्यम् । अनेन एयणप्र० → एय । 'अनिदम्यणपवादे च दित्यदित्यादित्य - यमपत्युत्तरपदाच्यः ' (६।१।१५) ज्यप्र० → य । 'वृद्धिः स्वरेष्वादेणिति तद्धिते' (७।४।१) वृ० ऐ । 'अवर्णेवर्णस्य' (७४/६८) इलुक् ।
[माण्डूकेयः, माण्डूकिः] मण्डूक । मण्डूकस्यापत्यं = माण्डूकः, माण्डूकिः । अनेन एयणप्र० → एय । 'अत इञ्' (६।१।३१) इप्र० → इ । 'वृद्धिः स्वरे०' (७४|१) वृ० आ । अवर्णेवर्णस्य' (७।४।६८) अलुक् ।
चकारो मण्डूकार्थः । अत्र वाग्रहणं विनापि पूर्वसूत्रे वाग्रहणेन मण्डूकेऽणिोः सिद्धत्वात् , अनेन च एयण्विधानात् त्रैरूप्यं सिद्धमित्यर्थः । वाग्रहणं दितेार्थम् ॥छ।।
ड्याप्त्यूङः ॥ ६।११७० ॥ [ङ्याप्त्यूङः] ङी च आप् च तिश्च ऊङ् च = ङ्याप्त्यू, तस्मात् ।
[सौपर्णेयः] सु-पर्ण । शोभनानि पर्णानि यस्याः सा = सुपर्णा । 'पाक-कर्ण-पर्ण-वालान्तात्' (२।४।५५) ङी । 'अस्य यां लुक् ' (२।४।८६) अलुक् । सुपा अपत्यं = सौपर्णेयः । अनेन एयणप्र० → एय । ‘वृद्धिः स्वरेष्वादेणिति तद्धिते' (७४।१) वृ० औ । 'अवर्णेवर्णस्य' (७४।६८) ईलुक् ।
[वैनतेयः] विनताया अपत्यं = वैनतेयः । अनेन एयणप्र० → एय । 'वृद्धिः स्वरे०' (७।४।१) वृ० ऐ । 'अवर्णेवर्णस्य' (७/४/६८) आलुक् ।
[यौवतेयः] युवन् 'यूनस्तिः ' (२।४।७७) तिप्र० । 'नाम्नो नोऽनह्नः' (२।१।९१) नलोपः । युवतेरपत्यं = यौवतेयः । अनेन एयणप्र० → एय । 'वृद्धिः स्वरेष्वादेणिति तद्धिते' (७४।१) वृ० औ । 'अवर्णेवर्णस्य' (७४।६८) इलुक् ।
[कामण्डलेयः] कमण्डलु 'बाह्वन्त - कद्रु - कमण्डलोर्नाम्नि' (२।४/७८) ऊप्र० → ऊ । 'समानानां०' (१।२।१) दीर्घः । अनेन एयणप्र० → एय । 'वृद्धिः स्वरे०' (७।४।१) वृ० आ । 'अकद्रु - पाण्ड्वोरुवर्णस्यैये' (७/४/६९) ऊलोपः ॥छ।।