________________
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां ।
[द्विरथः] द्वि-रथ । द्वयो रथयोर्वोढा, द्विरथ्या वोढा वा । 'रथात् साऽऽदेश्च वोढुङ्गे' (६।३।१७५) इत्यर्थे 'यः' (६।३।१७६) यप्र० । अनेन यलुप् । यदा द्वयो रथयोर्वोढा इति वाक्यं तदा तद्धितविषये द्विगुः । यथा(दा) द्विरथ्या वोढा वेति तदा समाहारविषये द्विगुः । यथासंभवं 'झ्यादेगौणस्याक्विपस्तद्धितलुक्यगोणी-सूच्योः' (२।४।९५) ङीनिवृत्तिः ।
[पञ्चकपालः] पञ्चसु कपालेषु - पञ्चकपाल्यां वा संस्कृतः = पञ्चकपालः । 'संस्कृते भक्ष्ये' (६।२।१४०) अण्प्र० । अनेन लुप् ।
[पञ्चेन्द्रः] पञ्चानामिन्द्राणीनां समाहारः = पञ्चेन्द्राणि । 'क्लीबे' (२।४।९७) हुस्वः । पञ्चेन्द्राणि-पञ्चेन्द्राण्यो वा देवताऽस्य । 'देवता' (६।२।१०१) अण्प्र० । अनेन लुपि हुस्वस्यापि स्थानित्वे ङीनिवृत्तौ आनोऽपि निवृत्तिः ।
[चतुरनुयोगः] चतुर्-अनुयोग । चतुरोऽनुयोगान् अधीते-चतुरनुयोगी वा अधीते । 'तद् वेत्त्यधीते' (६।२।११७) अण्प्र० । अनेन लुप् ।
[त्रिवेदः ] त्रि-वेद । त्रीन् वेदान् अधीते - त्रिवेदी वा अधीते । 'तद् वेत्त्यधीते' (६।२।११७) अण्प्र० । अनेन लुप् ।
[पौर्वशालः] पूर्वा-शाला । पूर्वा चासौ शाला (च) । 'परतः स्त्री पुम्वत् स्त्र्येकार्थेऽनूङ् (३।२।४९) पुंवत् । 'पूर्वा-ऽपर-प्रथम-चरम-जघन्य-समान-मध्य-मध्यम-वीरम्' (३।१।१०३) इति समासः । ततः पूर्वशालायां भवः । 'भवे' (६।३।१२३) अण्प्र० । यदा तु पूर्वस्यां शालायां भवः तदा 'दिक्पूर्वादनाम्नः' (६।३।२३) णप्र० । 'दिगधिकं संज्ञातद्धितोत्तरपदे' (३।१।९८) इति समासः ।
[विद्यः] त्र्यवयवा विद्या = त्रिविद्या । 'मयूरव्यंसकेत्यादयः' (३।१।११६) मध्यमपदलोपः । त्रिविद्यामधीते = विद्यः । 'तद् वेत्त्यधीते' (६।२।११७) अण्प्र० → अ । 'वृद्धिः स्वरे'० (७।४।१) वृ० ऐ । 'अवर्णेवर्णस्य' (७।४।६८) आलुक् ॥छ।।
प्राग्वतः स्त्री-पुंसात् नञ्-स्नञ् ॥ ६।१।२५ ॥ [ प्राग्वतः] वत्प्रत्ययात् प्राक् = प्राग्वत्, तस्मात् । [स्त्रीपुंसात् ] स्त्री च पुमान् च = स्त्रीपुंसम्, तस्मात् । 'स्त्रियाः पुंसो द्वन्द्वाच्च' (७।३।९६) अत्समासान्तः । [नस्नञ् ] नञ् च स्नञ् च = नस्नञ् ।
[स्त्रैणः] स्त्री । स्त्रिया अपत्यं = स्त्रैणः । अनेन नप्र० → न । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः ऐ। प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० ।
[पौंस्नः] पुम्स् । पुंसोऽपत्यं = पौंस्नः । अनेन स्नप्र० → स्न । 'वृद्धिः स्वरे'० (७४।१) वृ० औ । 'पदस्य' (२।१२८९) सलोपः । 'शिड्-हेऽनुस्वारः' (१।३।४०) अनुस्वारः । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० ॥छ।।
त्वे वा ।। ६।१।२६ ॥ [त्वे] त्व सप्तमी ङि। [वा] वा प्रथमा सि । 'अव्ययस्य' (३।२७) सिलुप् ।
卐 हैमप्रकाशे - चतुरनुयोगं वा अधीते ।