________________
षष्ठाध्यायस्य चतुर्थः पादः ॥
३५५
[ ऐकागारिकचौरः, ऐकागारिकी] एकमसहायमगारं प्रयोजनमस्य ऐकागारिकः ऐकागारिकी चौर्य कर्त्री । 'नामग्रहणे लिङ्गविशिष्टस्यापि ग्रहणम्' (न्या०सं०वक्ष० ( १ ) / सूत्र (१६)) इति अनेन इकण्प्र० इक । 'वृद्धिः स्वरे० ' (७|४|१) वृद्धिः ऐ । 'अवर्णेवर्णस्य' (७|४|६८) अलुक् । द्वितीये 'अणञेयेकण्०' (२।४।२०) ङी । 'अस्य ङ्यां लुक्' (२२४१८६) अलुक् ।
चौरे नियमार्थं वचनम् ॥
=
चूडादिभ्योऽण् || ६|४|११९ ॥
[ चूडादिभ्यः ] चूडा आदिर्येषां ते = चूडादयः, तेभ्यः ।
[ अण् ] अण् प्रथमा सि ।
[ चौडम् ] चूडा प्रयोजनमस्य = चौडम्-मुण्डनम् । अनेन अण्प्र० अ । 'वृद्धिः स्वरे० ' (७।४।१) वृद्धिः औ । 'अवर्णेवर्णस्य' (७|४|६८) आलुक् ।
[ चौलम् ] चूला प्रयोजनमस्य = चौलम् । अनेन अण्प्र० अ । 'वृद्धिः स्वरेष्वादेर्ज्जिति०' (७|४|१) वृद्धिः औ । 'अवर्णेवर्णस्य' (७|४|६८) आलुक् ।
[ औपनयनम् ] उपनयनं प्रयोजनमस्य औपनयनम् । अनेन अण्प्र० अ 'बृद्धिः स्वरे०' (७४१) वृद्धिः । ।
औ 'अवर्णेवर्णस्य' (२४।६८) अलुक् ।
1
=
=
[ श्राद्धम् ] श्रद्धा प्रयोजनमस्य श्राद्धम् अनेन अण्प्र० अ वृद्धिः स्वरेष्वादेर्ज्जिति०' (७|४|१) वृद्धिः । । = आ । 'अवर्णेवर्णस्य' (७|४|६८) आलुक् ॥छ ।
विशाखा - ऽऽषाढान्मन्थ - दण्डे || ६|४|१२० ॥
=
[विशाखाऽऽषाढात्] विशाखा च आषाढा च विशाखाऽऽषाढम् तस्मात् 'क्लीवे' (२२४।९७) ह्रस्वत्वम् । [मन्थदण्डे ] मन्यक्ष दण्डश्च मन्थदण्डम् तस्मिन् ।
मन्थो विलोडनं दण्डो वा । "व्रतिनामाषाढो दण्ड" इत्युच्यते ।
=
[ वैशाखो मन्थः] विशाखा प्रयोजनमस्य वैशाखो मन्थः । अनेन अण्प्र० वृद्धिः ऐ । 'अवर्णेवर्णस्य' (७|४|६८) आलुक् ।
अ 'वृद्धिः स्वरे०' (७४া१)
।
[ आषाढो दण्डः ] आषाढा आषाढे आषाढा: प्रयोजनमस्य = आषाढो दण्डः । अनेन अण्प्र० अ । वृद्धिः । 'अवर्णेवर्णस्य' (७७४६८) आलुक् प्रथमा सि सो रु' (२२११७२) स०२० ॥छ
उत्थापनादेयः || ६|४|१२१ ॥
[उत्थापनादे:] उत्थापन (नं) आदिर्यस्य सः उत्थापनादिः तस्मात् ।
=
[ ईय: ] ईय प्रथमा सि ।
[ उत्थापनीयः] उत् 'ष्ठां गतिनिवृत्तौ' (५) छ । 'षः सोऽष्ट्यै ष्ठिव०' (२३।९८) स्था । 'निमित्ताभावे० ' (न्या०सं०वक्ष०(१)/सूत्र (२९)) स्था । उत्तिष्ठन्तं प्रयुङ्क्ते । 'प्रयोक्तृव्यापारे णिग्' ( ३।४।२०) णिग्प्र० । 'अर्त्ति - री - व्ली०' (४२११) पोऽन्तः । 'उद: स्था-स्तम्भः सः' (१२३|४४ ) सलुक्। उत्थाप्यते = उत्थापनम् । अनट्प्र० अन ।
Shrenik/D/A-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012) Doondhika Part-6 (D) 1st 30-7-2013 (2nd - 16-9-2013) (3rd-3-10-2013) [355]