________________
३४२
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां ।
[पथिकः] पन्थानं याति = पथिकः । 'पथ इकट्' (६।४।८८) इकटप्र० → इक । 'नोऽपदस्य तद्धिते' (७।४।६१) इन्लुक् । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० ॥छ।।
शङ्क्त्तर-कान्तारा-ऽज-वारि-स्थल-जङ्गलादेस्तेनाऽऽहृते च ॥ ६।४।९० ॥ [शङ्केत्तरकान्ताराऽजवारिस्थलजङ्गलादेः ] शङ्कश्च उत्तरश्च कान्तारश्च अजश्च वारिश्च(वारि च) स्थलश्च जङ्गलश्च = शङ्क्त्तरकान्ताराऽजवारिस्थलजङ्गलाः । शङ्क्त्तरकान्ताराऽजवारिस्थलजङ्गला आदयो यस्य सः = शङ्क्त्तरकान्ताराऽजवारिस्थलजङ्गलादिः, तस्मात् ।
[तेन] तेन पञ्चमी ङसि । सूत्रत्वाल्लुप् । [आहृते ] आहृत सप्तमी ङि । [च] च प्रथमा सि ।
[शाङ्कुपथिकः] शकूनां पन्थाः = शङ्कुपथः । यद्वा शङ्कुप्रधानः पन्थाः = शङ्कुपथः । 'ऋक्-पू:पथ्यपोऽत्' (७।३।७६) अत्समासान्तः → अ । 'नोऽपदस्य तद्धिते' (७।४।६१) इन्लुक् । शङ्कुपथेन आहृतो याति वा = शाङ्कुपथिकः । अनेन इकण्प्र० → इक । 'वृद्धिः स्वरे०' (७४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७४।६८) अलुक् । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र०।।
[औत्तरपथिकः] उत्तरस्य देशस्य पन्थाः = उत्तरपथः । 'ऋक्-पू:-पथ्यपोऽत्' (७।३।७६) अत्समासान्तः → अ । 'नोऽपदस्य तद्धिते' (७४।६१) इन्लुक् । उत्तरपथेन आहृतो याति वा = औत्तरपथिकः । अनेन इकण्प्र० → इक । 'वृद्धिः स्वरे०' (७४।१) वृद्धिः औ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र०।
[कान्तारपथिकः] कान्तारस्य पन्थाः = कान्तारपथः । 'ऋक्-पू:-पथ्यपोऽत्' (७।३।७६) अत्समासान्तः → अ । 'नोऽपदस्य तद्धिते' (७४/६१) इन्लुक् । कान्तारपथेन आहृतो याति वा = कान्तारपथिकः । अनेन इकण्प्र० → इक । 'वृद्धिः स्वरे०' (७४।१) वृद्धिः । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । प्रथमा सि । 'सो रुः' (२।१७२) स० → र० ।
[आजपथिकः] अजस्य पन्थाः = अजपथः । 'ऋक्-पू:-पथ्यपोऽत्' (७।३।७६) अत्समासान्तः + अ । 'नोऽपदस्य०' (७४।६१) इन्लुक् । अजपथेन आहृतो याति वा = आजपथिकः । अनेन इकण्प्र० → इक । 'वृद्धिः स्वरेष्वादेफिति०' (७४।१) वृद्धि: आ । 'अवर्णेवर्णस्य' (७४/६८) अलुक् । प्रथमा सि । 'सो रुः' (२।१।७२) स०
→
र०।
[वारिपथिकः] वारिणः पन्थाः = वारिपथः । 'ऋक्-पू:-पथ्यपोऽत्' (७।३।७६) अत्समासान्तः → अ । 'नोऽपदस्य०' (७४/६१) इन्लुक् । वारिपथेन आहृतो याति वा = वारिपथिकः । अनेन इकणप्र० , इक । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र०।।
[स्थालपथिकः] स्थलस्य पन्थाः = स्थलपथः । 'ऋक्-पू:-पथ्यपोऽत्' (७।३।७६) अत्समासान्तः → अ । 'नोऽपदस्य०' (७४/६१) इन्लुक् । स्थलपथेन आहृतो याति वा = स्थालपथिकः । अनेन इकण्प्र० → इक । 'वृद्धिः स्वरेष्वादे०' (७।४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७४/६८) अलुक् । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० । __[जाङ्गलपथिकः ] जङ्गलश्चासौ पन्थाश्च = जङ्गलपथः । 'ऋक्-पू:-पथ्यपोऽत्' (७।३।७६) अत्समासान्तः → अ । 'नोऽपदस्य०' (७।४।६१) इन्लुक् । जङ्लपथेन आहृतो याति वा = जाङ्गलपथिकः । अनेन इकण्प्र० → इक । 'वृद्धिः है मध्यमवृत्तौ - स्थलं चासौ पन्थाश्च ।
Shrenik/D/A-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012) Doondhika Part-6 (D) 1st .30-7-2013 (2nd - 16-9-2013)
(3rd-3-10-2013)[342]