________________
षष्ठाध्यायस्य चतुर्थः पादः ॥
३०५
[कौद्दालिकः] कुद्दालेन खनति = कौद्दालिकः । अनेन इकण्प्र० → इक । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः औ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । अभ्री काष्ठमयी तीक्ष्णाग्रा कुद्दालिका उच्यते । इह तेनेति करणे तृतीया वेदितव्या, नान्यत्रानभिधानात् ॥छ।।
संस्कृ ते ॥ ६।४।३॥
[संस्कृते ] संस्कृत सप्तमी ङि । सतो विद्यमानस्य उत्कर्षाधानं संस्कारः ।
[दाधिकम् ] दधि मण्ड्यते । दध्ना संस्कृतं = दाधिकम् । अनेन इकण्प्र० → इक । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७।४।६८) इलुक् ।
[मारिचिकम् ] मरिचैः संस्कृतं = मारिचिकम् । अनेन इकण्प्र० → इक । 'वृद्धि: स्वरे०' (७।४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् ।
[शावेरिकम्] शृङ्गवेरेण-आर्द्रकेण संस्कृतं = शार्ङ्गवेरिकम् । अनेन इकण्प्र० → इक । 'वृद्धिः स्वरे०' (७।४।१) वृद्धि: आर् । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् ।
[औपाध्यायिकः शिष्यः] उपाध्यायेन संस्कृतम् = औपाध्यायिकः । अनेन इकण्प्र० → इक । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः औ । 'अवर्णेवर्णस्य' (७४/६८) अलुक् । प्रथमा-सि । 'सो रुः' (२।१।७२) स० → र० ।।
[वैधिकः] विद्यया संस्कृतः = वैद्यिकः । अनेन इकण्प्र० → इक । 'वृद्धिः स्वरे०' (७४।१) वृद्धिः ऐ । 'अवर्णेवर्णस्य' (७४।६८) आलुक् । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० ॥छ।।
कुलत्थ-कोपान्त्यादण् ।। ६।४।४ ॥ [ कुलत्थकोपान्त्यात् ] क उपान्त्यो यस्य सः । कुलत्थश्च कोपान्त्यश्च = कुलत्थकोपान्त्यम्, तस्मात् । [अण्] अण् प्रथमा सि ।।
[कौलत्थम् ] कुलत्थैः संस्कृतं = कौलत्थम् । अनेन इकण्प्र० → इक । 'वृद्धिः स्वरेष्वादेमिति०' (७४।१) वृद्धिः औ । 'अवर्णेवर्णस्य' (७/४/६८) अलुक् ।
[तैन्तिडीकम् ] तिन्तिडीकेन आम्लवेतसेन संस्कृतं, तिन्तिडीकाभिः आम्लिकाभिर्वा = तैन्तिडीकम् । अनेन इकण्प्र० → इक। 'वृद्धिः स्वरेष्वादेमिति०' (७।४।१) वृद्धिः ऐ । 'अवर्णेवर्णस्य' (७/४/६८) अवर्णस्य लुक् । सि-अम् ।
[दा१रूकम्] दर्दुरूकेण संस्कृतं = दा१रूकम् । अनेन इकणप्र० → इक । 'वृद्धिः स्वरेष्वादेफिति०' (७४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् ।
[मारण्डूकम् ] मरण्डूकेन संस्कृतं = मारण्डूकम् । अनेन अण्प्र० → अ । 'वृद्धिः स्वरेष्वादेमिति०' (७।४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् ।
[ मौद्गम् ] मुद्गेन संस्कृतं = मौद्गम् ।
[सारघम् ] 'सं गतौ' (२५) सृ । सरन्ति मधुच्छत्रं = सरघा । 'सर्तेरघः' (उणा०१११) अघप्र० । 'नामिनो गुणोऽक्ङिति' (४।३।१) गु० अर् । सरघाभिः कृतं = सारघम् । 'नाम्नि मक्षिकादिभ्यः' (६।३।१९३) अण्प्र० → अ । ॐ बृहद्वृत्त्यादिषु - तैत्तिडीकम् । हैमप्रकाशे - तैत्तिरीकम् ।
Shrenik/D/A-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012) Doondhika Part-6 (D) 1st .30-7-2013 (2nd - 16-9-2013)
(3rd-3-10-2013) [305]