________________
षष्ठाध्यायस्य तृतीयः पादः ॥
[ रोहितगिरीयः ] रोहितश्चासौ गिरिच रोहितगिरिः । रोहितगिरिः पर्वत आभिजनो निवासोऽस्यास्त्राजीवस्य सः = रोहितगिरीयः । अनेन ईयप्र० । 'अवर्णेवर्णस्य ( ७४६८) इलुक् ।
=
[ अन्धाश्मीयः ] अन्ध- अश्मन् मण्ड्यते । अन्धा अश्मानो यत्र सः । 'पृषोदरादयः' (३।२।१५५) अन्धाश्मनिपातः । अन्धाश्मः पर्वत आभिजनो निवासोऽस्यास्त्राजीवस्य सः = अन्धाश्मीयः । अनेन ईयप्र० । 'अवर्णेवर्णस्य' (७|४|६८) अलुक् ।
[ सांकाश्यकोऽस्त्राजीव: ] सांकाश्ये भवः = सांकाश्यकः । ‘प्रस्थ-पुर- वहान्त - योपान्त्य - धन्वार्थात् ' (६।३।४३) अकञ्प्र० → अक । वृद्धि: । 'अवर्णेवर्णस्य' (७|४|६८) अलुक् ।
३०३
[ आक्षदो ब्राह्मणः ] ऋक्षो नक्षत्रमिव निर्मलमुदकं यत्र सः = ऋक्षोदः उदकस्य उदभावः । ऋक्षोदः पर्वत आभिजनो निवासोऽस्य सः = आर्थोदो ब्राह्मणः → अ 'वृद्धिः स्वरे०' (७|४|१) वृद्धिः आर् । 'अवर्णेवर्णस्य' (७|४|६८) अलुक् ।
नाम्न्युत्तरपदस्य च ( ३।२।१०७ ) 'आभिजनात्' (६३।२१४) अणुप्र०
[ पार्थवः ] पृथुः पर्वत आभिजनो निवासोऽस्य सः = पार्थव: । 'आभिजनात् ' (६।३।२१४) अण्प्र० अ । 'वृद्धि: स्वरे०' (७|४|१) वृद्धि: आर् । 'अस्वयम्भुवोऽव्' (७।४।७०) अव् । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० । 'रः पदान्ते०' (१।३।५३) विसर्गः सर्वत्र ||छ ||
इत्याचार्य श्रीहेमचन्द्रविरचितायां बृहद्वृत्तौ तद्धितस्य तृतीयः पादः ॥ छ।
Shrenik/D/A-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012) Doondhika Part-6 (C) 1st 30-7-2013 (2nd - 16-9-2013)
(3rd-3-10-2013) [303]