________________
२७२
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां ।
अकल्प्र० → अक । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । 'आत्' (२।४।१८) आप्प्र० → आ । यद्वा भरद्वाजस्यापत्यानि वृद्धानि । 'विदादेर्वृद्धे' (६।१।४१) अप्र० । भरद्वाजानामपत्यानि युवानः । 'अत इञ्' (६।१।३१) इञ्प्र० । 'जिदार्षादणिोः ' (६।१।१४०) इब्लुप् । 'यज्ञोऽश्या०' (६।१।१२६) अञ्लुप् । 'गर्ग - भार्गविका' (६।१।१३६) इति नियमात्' न प्राग्जितीये स्वरे' (६।१।१३५) इति सर्वेषु न प्रवर्त्तते । शेषं पूर्ववत् ।
[वशिष्ठकश्यपिका] वसि(शि)ष्ठस्यापत्यानि । 'ऋषि वृष्ण्यन्धक-कुरुभ्यः' (६।१।६१) अण्प्र० । 'भृग्वङ्गिरस्कुत्स-वशिष्ठ०' (६।१।१२८) अण्लुप् । कश्यपस्यापत्यानि वृद्धानि । 'विदादेर्वृद्धे' (६।१।४१) अप्र० । 'योऽश्या०' (६।१।१२६) अञ्लुप् । वसि(शि)ष्ठानां कश्यपानां च विवाहः = वसि(शि)ष्ठकश्यपिका । अनेन अकल्प्र० → अक । 'अवर्णेवर्णस्य' (७/४/६८) अलुक् । 'आत्' (२।४।१८) आप्प्र० → आ । 'अस्याऽयत्' (२।४।१११) इ ।
[भृग्वङ्गिरसिका] भृगु । भृगोरपत्यानि । अङ्गिरसोऽपत्यानि । 'ङसोऽपत्ये' (६।१।२८) अण्प्र० । भृग्वङ्गिरस् - कुत्स०' (६।१।१२८) अण्लुप् । भृगूणामङ्गिरसां च विवाहः = भृग्वङ्गिरसिका । अनेन अकल्प्र० → अक । 'आत्' (२।४।१८) आप्प्र० → आ । 'अस्याऽयत्' (२।४।१११) इ ।
[कुत्सकुशिकिका] कुत्सस्यापत्यानि = कुत्साः । 'ऋषि वृष्ण्यन्धक-कुरुभ्यः (६।१।६१) अण्प्र० । 'भृग्वङ्गिरस्कुत्स०' (६।१।१२८) अण्लुप् । कुशिकस्यापत्यानि वृद्धानि = कुशिकाः । 'विदादेर्वृद्धे' (६।१।४१) अप्र० । 'यजञोऽश्यापर्णान्त०' (६।१।१२६) अञ्लुप् । कुत्सानां कुशिकानां च विवाहः = कुत्सकुशिकिका । अनेन अकल्प्र० → अक । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । 'आत्' (२।४।१८) आप्प्र० → आ । 'अस्याऽयत्०' (२।४।१११) इ।
[गर्गभार्गविका] गर्गस्यापत्यानि वृद्धानि । 'गर्गादेर्यञ्' (६१४२) यप्र० । 'यज्ञोऽश्यापर्णान्त०' (६।१।१२६) यञ्लुप् । भृगोरपत्यं = भार्गवः । 'ऋषि वृष्ण्यन्धक०' (६।१।६१) अण्प्र० । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः आर् । 'अस्वयम्भुवोऽव्' (७४/७०) अव् । गर्गाणां भार्गवाणां च विवाहः = गर्गभार्गविका । अनेन अकल्प्र० → अक । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । 'आत्' (२।४।१८) आप्प्र० → आ । 'अस्याऽयत् - तत्०' (२।४।१११) इ ।
[कुरुवृष्णिका] कुरु । कुरोरपत्यानि । 'दु-नादि-कुर्वित्-कोशला-ऽजादाभ्यः' (६।१।११८) ज्यप्र० । वृष्णेरपत्यानि । 'दु-नादि०' (६।१।११८) ज्यप्र० । 'बहुष्वस्त्रियाम्' (६।१।१२४) ज्यलुप् । कुरूणां वृष्णीनां च विवाहः = कुरुवृष्णिका । अनेन अकल्प्र० → अक । 'अवर्णेवर्णस्य' (७।४।६८) इलुक् । 'आत्' (२।४।१८) आप्प्र० → आ । 'अस्याऽयत् - तत्०' (२।४।१११) इ ।
[कुरुकाशिका] कुरु । कुरोरपत्यानि । 'दु-नादि-कुवित्' (६।१।११८) ज्यप्र० । काशेरपत्यानि । 'दु-नादिकुर्वित्' (६।१।११८) ज्यप्र० । 'बहुष्वस्त्रियाम्' (६।१।१२४) ज्यलुप् । कुरूणां काशा(शी)नां च विवाहः = कुरुकाशिका । अनेन अकल्प्र० → अक । 'अवर्णवर्णस्य' (७।४।६८) इलुक् । 'आत्' (२।४।१८) आप्प्र० → आ । 'अस्याऽयत् - तत्०' (२।४।१११) इ । लकारः स्त्रीत्वार्थः ॥छ।।
अदेवासुरादिभ्यो वैरे ॥ ६।३।१६४ ॥ [अदेवासुरादिभ्यः] देवाश्च असुराश्च = देवासुराः(रम्) । देवासुरा(रं) आदिर्येषां ते = देवासुरादयः । न देवासुरादयः = अदेवासुरादयस्तेभ्यः ।
[वैरे] वैर सप्तमी ङि ।
Shrenik/D/A-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012) Doondhika Part-6 (C) 1st 30-7-2013 (2nd - 16-9-2013)
(3rd-3-10-2013)[272]