________________
षष्ठाध्यायस्य द्वितीयः पादः ॥
१३७
[आमलकम् ] वृक्षेऽर्थे नित्यस्त्रीलिङ्गोऽतो 'जातेरयान्त०' (२।४।५४) इति ङी न प्राप्नोति, अतो गौरादौ पाठादेषां ङी । आमलक 'गौरादिभ्यो मुख्यान्ङी:' (२।४।१९) ङी । 'अस्य यां लुक्' (२।४।८६) अलुक् । आमलक्या विकारोऽवयवो वा फलम् = आमलकम् । विकारे अण्प्र० (मयट्प्र०) । अनेन लुप् । 'ङ्यादेौणस्याक्विप०' (२।४।९५) ङीनिवृत्तिः । सि-अम् ।
[बदरम्] वि(ब)दर्या विकारः फलं = बदरम् । विकारे अण्प्र० । अनेन लुप् । 'यादेर्गौणस्याक्विपस्तद्धितलुक्यगोणी-सूच्योः' (२।४।९५) ङीनिवृत्तिः । सि-अम् ।
[कुवलम् ] कुवल 'गौरादिभ्यो मुख्यान्ङी:' (२।४।१९) ङी । 'अस्य यां लुक्' (२।४।८६) अलुक् । कुवल्या विकारः फलं = कुवलम् । विकारे अण्प्र० । अनेन लुप् । 'ङ्यादेर्गौणस्याक्विप०' (२।४।९५) ङीनिवृत्तिः । सि-अम् ।
[भल्लातकम्] भलि (८१२) - 'भल्लि परिभाषण-हिंसा-दानेषु' (८१३) भल्लू । भल्लते इति । 'चण्डिभल्लिभ्यामातकः' (उणा० ८२) आतकप्र० । भल्लातकनिपात्यते । 'जातेरयान्त-नित्यस्त्री-शूद्रात्' (२।४।५४) ङी । 'अस्य ङ्यां लुक्' (२।४।८६) अलुक् । भल्लातक्या विकारोऽवयवो वा = भल्लातकम् । 'दोरप्राणिनः' (६।२।४९) मयट्प्र० । अनेन लुप् ।
[व्रीहिः ] व्रीहेर्विकारः स्तम्बः = व्रीहिः । 'प्राण्यौषधि०' (६।२।३१) अण्प्र० । अनेन लुप् । [यवः] यवानां विकारः स्तम्बः = यवः । 'तिल-यवादनाम्नि' (६।२।५२) मयट्प्र० । अनेन लुप् । [ मुद्गः ] मुद्गानां विकारः । 'दोरप्राणिनः' (६।२।४९) मयट्प्र० । अनेन लुप् । [माषः] माषाणां विकारः । 'दोरप्राणिनः' (६।२।४९) मयट्प्र० । अनेन लुप् । [गोधूमः] गोधूमानां विकारः । 'दोरप्राणिनः' (६।।४९) मयट्प्र० । अनेन लुप् । [निष्यावः] निष्पावस्य विकारः = निष्पावः । 'प्राण्यौषधि-वृक्षेभ्योऽवयवे च' (६।२।३१) अण्प्र० । अनेन लुप् । [तिलः] तिलानां विकारः = तिलः । 'तिल-यवादनाम्नि' (६।२।५२) मयट्प्र० । अनेन लुप् । [कुलत्थः] कुलत्थस्य विकारः = कुलत्थः । 'प्राण्यौषधि०' (६।२।३१) अण्प्र० । अनेन लुप् । [हरीतकी] हरीतक्या विकारोऽवयवो वा फलं = हरीतकी । [पिप्पली ] पिप्पली । पिप्पल्या विकारोऽवयवो वा फलं = पिप्पली । [कोशातकी ] कोशातक्या विकारोऽवयवो वा फलं = कोशातकी । [श्वेतपाकी] श्वेतपाक्या विकारोऽवयवो वा फलं = श्वेतपाकी । [ अर्जुनपाकी] अर्जुनपाक्या विकारोऽवयवो वा फलं = अर्जुनपाकी । [ कर्कटी ] कर्कट्या विकारोऽवयवो वा फलं = कर्कटी ।
[नखरजनी] नख 'रञ्जी रागे' (८९६) रञ् । नखा रज्यन्ते यया = नखरजनी । 'तुदादि-वृजि-रञ्जि-निधाभ्यः कित्' (उणा० २७३) किद् अनप्र० । हरीतक्यादिसर्वेषु 'गौरादिभ्यो मुख्यान्डीः' (२।४।१९) ङी । 'अस्य यां लुक्' (२।४।८६) अलुक् । नखरजन्या विकारोऽवयवो वा = नखरजनी ।
[शष्कण्डी] शष्कण्ड्या विकारोऽवयवो वा = शष्कण्डी ।
Shrenik/DIA-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012)Doondhika Part-6 (B) 1st • 30-7-2013 (2nd-16-9-2013)
(3rd-3-10-2013) [137]