________________
षष्ठाध्यायस्य द्वितीयः पादः ॥
१३३
[भासम्, भासमयम् ] भासस्य विकारोऽवयवो वा भासम् । 'प्राण्यौषधि०' (६।२।३१) अण्प्र० → अ । 'वृद्धिः । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । एवम्-भासमयम् । 'अभक्ष्या०' (६।२।४६) मयटप्र० → मय ॥छ।।
गोः पुरीषे ॥६।२।५० ॥ [गोः] गो पञ्चमी ङसि । 'एदोद्भ्यां०' (१।४।३५) ङसि० → र० । 'र: पदान्ते०' (१३।५३) विसर्गः । [पुरीषे] पुरीष सप्तमी ङि । [गोमयम् ] गोः पुरीषं = गोमयम् । अनेन मयट्प्र० → मय । सि-अम् ।
[गव्यं पयः, गव्यं सक्थि] गोविकारोऽवयवो वा = गव्यं पयः, गव्यं सक्थि । 'गोः स्वरे यः' (६।१।२७) यप्र० । 'य्यक्ये' (१।२।२५) अव । सि-अम् ।
यद्यपि पुरीषं गोविकारत्वेन न प्रसिद्धं तथापि दोष-धातु-मलमूलं-दोषा:-वात-पित्त-कफाः, धातवः-रस-रक्तमज्जादयः, मलानि-मूत्र-पुरीषादीनि तेषां समाहारात् दोषधातुमलम् । मूलं शरीरमिति विवक्षायां तत्र तिष्ठति । 'स्था-पा०' (५।१।१४२) कप्र० → अ । 'इडेत्-पुसि चाऽऽतो लुक्' (४।३।९४) आलुक् । तत्स्थस्य भावः = तात्स्थ्य म् । 'पतिराजान्त-गुणाङ्ग-राजादिभ्यः कर्मणि च' (७।४।६०) ट्यणप्र० → य । वृद्धिः । 'अवर्णेवर्णस्य' (७/४/६८) अलुक् । तस्मात् - शरीरवत् व्यवहारः = तात्स्थ्यात् तद्वदुपचार इति गोः पुरीषं पयश्च विकारो भवति । 'एकस्वरात्' (६।२।४८) इत्येव सिद्धे पुरीषे नियमार्थं वचनम् ॥छ।।
व्रीहेः पुरोडाशे ॥ ६।२।५१ ॥ [व्रीहेः] व्रीहि पञ्चमी ङसि । [पुरोडाशे] पुरोडाश सप्तमी ङि ।
[व्रीहिमयः पुरोडाशः] व्रीहि । व्रीहेविकारः = व्रीहिमयः । अनेन मयट्प्र० → मय । प्रथमा सि । पुरोडाशः - पृष्टपिण्ड इत्यर्थः । पुरस् 'दाशृग् दाने' (९२२) दाश् । पुरो दाश्यते = पुरोडाशः । 'व्यञ्जनाद् घञ्' (५।३।१३२) घप्र० → अ । 'पृषोदरादयः' (३।२।१५५) पुरोडाशनिपातः ।
[त्रैह ओदनः, वैहं भस्म ] व्रीहेविकारोऽवयवो वा = ब्रैह ओदनः, हं भस्म । 'विकारे' (६।२।३०) अण्प्र० → अ । वृद्धिः । 'अवर्णेवर्णस्य' (७।४।६८) इलुक् । सि-अम् ॥छ।।
तिल-यवादनाम्नि || ६।२।५२ ॥ [तिलयवात् ] तिलश्च यवश्च = तिलयवम्, तस्मात् । [अनाम्नि ] न नाम = अनाम, तस्मिन् । [तिलमयम् ] तिलानां विकारोऽवयवो वा = तिलमयम् । अनेन मयट्प्र० → मय । सि-अम् । [यवमयम् ] यवानां विकारोऽवयवो वा = यवमयम् । अनेन मयटप्र० → मय । सि-अम् ।
[ तैलम् ] तिलानां विकारः = तैलम् । 'विकारे' (६।२।३०) अण्प्र० → अ । 'वृद्धिः स्वरेष्वादेणिति०' (७।४।१) वृ० ऐ । 'अवर्णेवर्णस्य' (७४।६८) अलुक् ।
Shrenik/DIA-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012)Doondhika Part-6 (B) 1st • 30-7-2013 (2nd-16-9-2013)
(3rd-3-10-2013) [133]