________________
षष्ठाध्यायस्य द्वितीयः पादः ॥
[ तालमयं धनुः] तालस्य विकारः = तालमयं धनुः । [त्रपुमयम् ] त्रपुणो विकारः = त्रपुमयम् । [जतुमयम् ] जतुनो विकारः = जतुमयम् । [शमीमयम् ] शम्याः विकारः = शमीमयम् । [पयोमयम् ] पयसो विकारः = पयोमयम् । [ द्रुमयम् ] दोर्दारुणो विकारः = द्रुमयम् । [ उष्ट्रमयम् ] उष्ट्रस्य विकारः = उष्ट्रमयम् । [ उमामयम् ] उमाया विकारः = उमामयम् । [ऊर्णामयम् ] ऊर्णाया विकारः = ऊर्णामयम् । [एणीमयम्] एण्या विकारः = एणीमयम् । [ कोशमयम् ] कोशस्य विकारः = कोशमयम् । [ परशव्यमयम् ] परशव्य । परशव्यस्यायसो विकारः = परशव्यमयम् । [कंसीयमयम् ] कंसीयस्य विकारः = कंसीयमयम् । [शतमयम् ] शतस्य विकारः = शतमयम् । अनेन मयट्प्र० → मय सर्वत्र । सि-अम् ॥छ।।
शर-दर्भ-कूदी-तृण-सोम-वल्वजात् ॥ ६।२।४७ ॥ [शरदर्भकूदीतृणसोमवल्वजात्] शरश्च दर्भश्च कूदी च तृणं च सोमश्च वल्वजश्च = शरदर्भकूदीतृणसोमवल्वजम्, तस्मात् ।
ननूत्तरेण सह एकयोगः कथं न क्रियते ? उच्यते - एकयोगे शरदर्भादीनामदुसंज्ञकानां साहचर्यादेकस्वराणामपि अदुसंज्ञकानां स्यात्, ततो वाङ्मयमित्यादि न स्यात् ।
[शरमयम् ] शरस्य विकारः = शरमयम् । [दर्भमयम् ] दर्भस्य विकारः = दर्भमयम् ।
[कूदीमयम् ] कु 'डुदांग्क् दाने' (११३८) दा । कुवं शब्दं ददाति पाट्यमाना । 'क्वचित्' (५।१।१७१) डप्र० → अ । 'डित्यन्त्यस्वरादेः' (२।१।११४) आलुक् । 'गौरादिभ्यो मुख्यान्डी:' (२।४।१९) ङी । 'अस्य ङ्यां लुक्' (२।४।८६) अलुक् । कूद्यास्तृणविशेषस्य विकारोऽवयवो वा = कूदीमयम् ।
[ तृणमयम् ] तृणस्य विकारोऽवयवो वा = तृणमयम् । [सोममयम् ] सोमस्य विकारोऽवयवो वा = सोममयम् । [वल्वजमयम् ] वल्वजस्य विकारोऽवयवो वा = वल्वजमयम् । अनेन मयट्प्र० → मय सर्वत्र । सि-अम् ॥छ।।
एकस्वरात् ॥ ६।२।४८ ॥ [एकस्वरात् ] एकः स्वरो यस्य सः = एकस्वरस्तस्मात् ।
Shrenik/DIA-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012)Doondhika Part-6 (B) 1st • 30-7-2013 (2nd-16-9-2013)
(3rd-3-10-2013) [131]